This page has not been fully proofread.

सर्गः ७ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ९९
 
हरिचरणशरणजयदेवकविभारती ।
 
वसतु हृदि युवतिरिव कोमलकलावती ॥ यामि हे० ॥ ८ ॥
तत्कि कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-
र्बद्धो बन्धुभिरन्धकारिणि वनाभ्यर्णे किमुद्धाम्यति ।
कान्तः क्वान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः
सङ्केतीकृतमञ्जवञ्जुललता कुञ्जेऽपि यन्नागतः ॥ ३ ॥
 
भवतीति व्यङ्ग्यम् । नगणितेत्यादौ निषेधार्थकनकारेण समासः । 'अनुनीतश्च खगः स
नैकधा' इतिवत् । शेषविवक्षाभावान्मां स्मरतीत्यत्र न षष्ठी ॥ ७ ॥ अपि च हरि-
चरणेति । हरिचरणौ शरणं गृहं यस्याः सा चासौ जयदेवकविभारती च । अथवा
हरिचरणेति जयदेवविशेषणम् । तत्र शरणं रक्षितृ । हृदि वसतु । अर्थाद्भक्तानाम् ।
किंलक्षणा । कोमला कलावती च । तथा च सङ्गीतराजे – 'रागः स्यात्स्थान गौडाख्य-
स्तालो वर्णयती रसः । शृङ्गारो विप्रलम्भाख्यः प्रमदा मदनाकुला ॥ पक्षनामावले:
पाटा गुम्फिता यत्र गीतके । स्निग्धमधुसूदनोऽयं रासावलयनामकः ॥ प्रबन्धः
पृथिवीभर्त्रा प्रबद्धः प्रीतये हरेः ॥' इति स्निग्धमधुसूदनरासावलयनामा प्रबन्धस्त्र-
योदशः ॥ ८ ॥ राधा तदनागमने स्वगतान्हेतून्वितर्कयति – तत्किमिति । यद्य-
स्मात्कान्तः कामुकः सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः मनोहरवेतसलतागृ-
हेऽपि यन्नायासीत्तत्तस्मादहमिति वितर्कयामि । तमेव वितर्कमाह
-कामपीति । कां-
चित्कामिनीमभिसृतः किमन्यकामिन्यर्थं गतः । अथवा मामत्र संकेतस्थाने विहाय कथम-
न्यत्र विहरिष्यतीत्याशङ्ख्याह — कलाकेलिभिर्बन्धुभिर्बद्धः किम् । कलेति । विलासक्रीडा-
परैः । मामभ्युपगच्छन्नन्तरापि क्रीडावशो जातः । अथवा मां विहाय अन्यत्करोतीति
विचारेणाप्यलम् । किंतु मामेवाभिसरन् मामलभमान इतस्ततः सान्द्रेऽन्धकारे वनस-
-
 
नातिवसामि । अपि तु निवसाम्येव । शेषं पूर्ववत् । विप्रलब्धा चेयं नायिका ।
तल्लक्षणम् – 'कृत्वा संकेतमप्राप्ते दयिते व्यथिता तु या । विप्रलब्धेति सा प्रोक्ता बुधैरस्यास्तु
विक्रियाः । निर्वेदचिन्ताश्चेष्टास्तु मूर्च्छानिःश्वसितादयः" इति ॥ ७ ॥ हरिचरणेति ।
हरेश्चरणौ शरणं यस्य तादृशो जयदेवकविस्तस्य भारती वाणी हृदि हृदये वसतु ।
अर्थात्कृष्णस्य भक्तानाम् । कीदृशी भारती । कोमलाऽनिष्ठुरवर्णा कलावती विचित्र -
कलायुक्ता । केव । युवतिरिव । कीदृशी । कोमला मृद्वङ्गी । कलावती चतुःषष्टि-
कलाकुशला ॥ ८ ॥ तत्किमिति । कान्तः कृष्णः संकेतीकृतो मञ्जुर्मनोहरो वञ्जुललताकुक्षो
वेत्रलतागृहं तत्रापि यत् यतो हेतोर्नागतस्तत्कामपि कामिनीं किमभिसृतः 1
अन्यस्याः कस्याश्चिदभिसारभूमिं प्राप्त इति किमु इत्यर्थः । यद्वा । बन्धुभिगो॑पभूमिं
प्राप्तः कलाकेलिभिः कौतुककलाभिर्बद्धो नियत्रितः किमु । यद्वा । अन्धकार
घनतरतरुच्छायायां निबिडान्धकारे वनोपान्ते संकेतीकृत विपिनसमीपे संकेतस्थलमप्राप्य
भ्राम्यत्ति किमु परिभ्रमणं करोति किम् । संशयान्तरमाह-
इ-क्लान्तमना इति । प्रकृतकिमु-
शब्दोश्वापि संबध्यते । तथा च । क्लान्तं मद्विश्लेषे दुःखेनोपतप्तं मनो यस्य एतादृशः ।
 
1
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri