2022-10-18 04:14:11 by ambuda-bot
This page has not been fully proofread.
९८
गीतगोविन्दकाव्यम्
अहह कलयामि वलयादिमणिभूषणम् ।
हरिविरहदहनवनेन बहुदूषणम् ॥ यामि हे० ॥ ५ ॥
कुसुमसुकुमारतनुमतनुशरलीलया ।
स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ यामि हे० ॥ ६ ॥
अहमिह निवसामि नगणितवनवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥ यामि हे० ॥ ७ ॥
[ सर्गः ७
यतस्तत्प्राप्त्यर्थं मया प्रयत्नः कृतः, अन्यया च हरिरतसुखमनुभूयते ॥ ४ ॥ अपि च
अहहेति । अहह इति खेदे । हरिविरहदहनवहनेन वलयादिकं मणिभूषणं बहुदूषणं
कलयामि । यतः 'स्त्रीणां प्रियालोकफलो हि वेषः' इति ॥५॥ अपि च । कुसुमेति ।
हे कान्त, हृदि वर्तमाना स्रगपि मामतनुशरलीलया कामबाणखाभाव्येन हन्ति । मया
पुष्पस्रगिति धार्यते तस्याश्च स्मरशरमयत्वात् हननस्वभावः । अत एवातिविषम-
शरलीलया । अति विषमीयते यस्मिन्नित्यतिविषमं तच्छीलं यस्याः सा तथा । अथवा
मां हृदि मनसि हन्ति । मनो विध्यतीत्यर्थः । अत एव विषमशीलया अन्यशरेभ्यो
विषमस्वभावया । तथा च 'अपूर्वेयं धनुर्विद्या मन्मथस्य महात्मनः । शरीरमक्षतं
कृत्वा भिनत्यन्तर्गतं मनः ॥' किंभूतां कुसुमादपि सुकुमारतनुम् । यो हि यस्माद्दीनबल:
स तं सुखेन हन्ति ॥ ६ ॥ अपि च । अहमिति । हे कान्त, अहमिह कुजे नग
णितवनवेतसा निवसामि न गणितानि वनानि वेतसाश्च यया । वनवेत सग्रहणमन्ये -
घामपि वनस्थविषमाणामुपलक्षणार्थम् । तेन दुर्लक्ष्यमप्युल्लत्य न चिन्तामहमागता
परं मधुसूदनस्तु मां चेतसापि न स्मरति । अतीव युद्धाभिनिवेश: संभोगपराङ्मुखो
वृषः' इत्यमरः ॥ ४ ॥ अहहेति । अहहेत्यद्भुते । वलयादिमणिभूषणं कटकादिमणिखचि-
तमलंकारं हरिविरहदहनवहनेन कृष्णविरहाग्निधारणेन बहुदूषणमनेकदोषं पश्यामि ।
स्त्रीणां प्रियाण्याभरणानि तान्यप्यधुना भारभूतानीत्यद्भुतमिति भावः ॥ ५ ॥ कुसुमेति ।
स्रगपि पुष्पमालापि । अतनुशरलीलया अतनुः कामस्तस्य ये शरास्तेषां लीलया मां
हृदि हन्ति ताडयति । कामबाणा अपि पुष्पाण्येव स्रगपि पुष्पमयीति तल्लीलया
हन्तीति भावः । कीदृश्या अतनुशरलीलया । अतिविषमशीलया अतिशयेन विषमं शीलं
स्वभावो यस्यास्तादृश्या । अन्यबाणा हि क्षिप्ताः सन्तः क्षतमुत्पाद्य घ्नन्ति । कामबाणास्तु
हृदि संगताः क्षतमकृत्वैवान्तरे घ्नन्तीति विषमशीलतेति भावः । कीदृशीं माम् ।
कुसुमसुकुमारतनुं पुष्पकोमलाङ्गीम् ॥ ६ ॥ अहमिति । अहमिह निकुञ्जे वसामि ।
कीदृशी । न गणिता न संभाविता वनवेतसा विपिनस्य वेत्रलता यया सा । मधुसूदनः
कृष्णो मां चेतसा न स्मरति । अपि च चेतोमात्रसाध्यं त्वया स्वयं स्मरणमपि न करोति
अन्यस्य का वार्तेति चेतसेत्यनेन ध्वनितम् । अन्यथा स्मरणस्य चेतोजन्यत्वेन चेतसे त्यस्य
वैयर्थ्यापत्तेः । नगणितेत्यत्र नशब्देन निषेधवाचकेन समासः । न तु नञ्शब्देन ।
नजा सह समासेऽगणितेति स्यात् । यद्वा नञ् शिरश्चालने । तथा च गणिताः
प्रतिलतं कृष्णमन्वेषयन्त्या परिसंख्याता वनवेतसा यया सा । यद्वा । अहमिह बने किं
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri