This page has been fully proofread once and needs a second look.

प्रख्यापयामास पुनर्देशे देशे नृपोत्तमः ।
अथापरं प्रवक्ष्यामि तस्यैव चरितं शुभम् ॥
 
एकदा तूत्कले देशे पुरुषोत्तमसंनिधौ ।
कस्मिंश्चिन्नगरे काचिच्छाकविक्रयिणी मुदा ॥
 
शरत्काले निशीथिन्यां चन्द्रिकाञ्चितदिग्दशे ।
गायन्ती गीतगोविन्दं वृन्ताकवनमध्यगा ॥
 
वृन्ताकं च विचिन्वन्ती विक्रयार्थमितस्ततः ।
गायन्ती कृष्णचरितं जयदेवविनिर्मितम् ॥
 
श्रुत्वा गानं तु भगवांस्तस्याः पश्चादितस्ततः ।
शृण्वन्गीतं स बभ्राम व्रजन्ती सा यतो यतः ॥
 
एवं भक्तिवशः कृष्णो वृन्ताकविपिने हरेः ।
वृन्ताककण्टकैश्छिन्नं परिधानीयमम्बरम् ॥
 
वृन्ताकानि गृहीत्वा सा मन्दिरं स्वं ययौ यदा ।
तदा स्वधाम संप्राप्तो निशि श्रीपुरुषोत्तमः ॥
 
प्रभाते तत्र पूजार्थमायातः पूजको हरेः ।
पूजासंभारमादाय द्रष्टुं राजाप्युपागतः ॥
 
प्रोद्घाट्य स कपाटं तु गत्वा देवस्य संनिधौ ।
स्थापयन्परिधानीयमपश्यत्खण्डशः कृतम् ॥
 
वृन्ताककण्टकैर्विद्धं किमेतदित्यचिन्तयत् ।
आहूय स तु राजानं दर्शयामास चाम्बरम् ॥
 
कथमेतदभूद्राजन्परमाश्चर्यमित्यहो ।
मयैवागत्य च पुनः कपाटोद्घाटनं कृतम् ॥
 
न बालो नापि चोन्मत्तः कश्चिदत्रागतो निशि ।
कथमेतद्विजानीयां केनेदं कृतमीदृशम् ॥
 
इत्युक्त्वा पूजयित्वा तं सह राज्ञा स पूजकः ।
विस्मितो बहिरागत्य परां चिन्तामुपागतः ॥
 
मुहुर्मुहुश्चिन्तयानो न लेभेऽद्भुतकारणम् ।
तदा राजापि तत्रैव पूजकब्राह्मणेन वै ॥
 
उवाच रात्रौ श्रीकृष्णं प्रार्थयन्मनसा मुहुः ।
केनेदमासीद्वस्त्रस्य खण्डशः करणं विभोः ॥
 
एवं चिन्तापरौ तौ तु त्यक्ताशनजलावुभौ ।
रात्रौ सुषुपतुस्तत्र लेभाते नैव तौ सुखम् ॥
 
तदा निशावशेषे तु स्वप्ने श्रीपुरुषोत्तमः ।
ददृशतुरुभौ देवं तत्तद्रूपिणमागतम् ॥
 
राजानं ब्राह्मणं चापि वदन्तं मधुराक्षरम् ।
विषीदसि किमर्थं भो मद्वस्त्रच्छेदनादिना ॥