2022-11-12 07:23:01 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
मम मरणमेव व[^१]रमिति वितथकेतना । 199
किमिति[^२] विषहामि विरहानलमचेतना ॥ यामि हे० ॥ ३ ॥
मा[^३]महह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ यामि हे० ॥ ४ ॥
मसमशरकीलितं वर्तते । अथवा यदिति यद्वचनेनाव्यवहितमेव सखीवचनं
परामृश्यते । यद्वचनानुसरणाय गहनं शीलितं तेन तद्वचनहेतुना मम हृदय-
मसमशरपीडितं <error>। वर्तते ।</erro><fix>वर्तते ।</fix> अत्र यच्छब्दस्याप्राधान्यात्समासेन निर्गुणत्वाच्च न प्रधा-
नत्वेनान्वयः संभवी, विवक्षितार्थासमर्पकत्वात् ॥ २ ॥ अपि च ।<pratika>ममेति ।</pratika> इहाचे-
तनाहं चैतन्यरहिता विह्वलत्वमाप्ता विरहानलं विषहामि । कथमिति विषहामीति । धा-
त्वन्तरमप्यस्तीत्यवधार्यताम् । तदसद्भावे भ्रान्तिर्मास्तु । तत्संदेहनिराकरणार्थं काम-
धेनावीक्ष्यताम् । अत्र विषह्य किं शक्तावित्यस्य ( ? ) दिवादित्वचुरादित्वभ्वादित्व-
परस्मैपदिनो न सन्ति । किंविशिष्टा अहम् । इतीव हेतोः वितथकेतना वितथं केतनमा-
वासो यस्याः । प्रियशून्यत्वात् । अथवा वितथं निमन्त्रणं यस्याः सा । सखीमात्रवचनेन
हि तामनुसरणेन वा ईदृशस्य साहसस्यानुपघातात् । अथवा वितथं केतनं देहो यस्याः
प्रियाप्राप्तेः ॥ एवं सति मम मरणमेव वरं न देहधारणम् ॥ ३ ॥ अपि च ।
<pratika>मामहहेति ।</pratika>मधुरमधुयामिनी कोमला सरसा वसन्तरात्रिर्मां विधुरं करोति ।
अपि च । कापि कृतसुकृतकामिनी कृपया हरिमनुभवति । एतावताऽहं मन्दभाग्या
वरमुत्कृष्टम् । तत्र हेतुमाह -- इह वनेऽचेतना समूर्च्छा । यद्वा । अचेतना मूर्च्छया ज्ञान-
रहिता । यद्वा । अः कृष्णस्तत्र चेतना बुद्धिर्यस्यास्तादृशी । विरहानलं विरहाग्निं किमिति
विषहामि सहे । तथा च । इह मम दुःखस्य कोऽपि ज्ञातापि नेत्यरण्यरुदितं किमित्याचरा-
मीति भावः । कीदृश्यहम् । अतिवितथकेतनातिशयेन वितथं मिथ्याभूतं केतनं गृहं यस्या-
स्तादृशी । यद्वा । अतिवितथं केतनं शरीरं यस्याः सा । तथा च । निरुपमसौन्दर्या-
लयमपीदं शरीरं तेन विना विफलमित्यर्थः । अतिवितथकेतनमिमं स्वपतिं विहायान्य-
पुरुषमभिसृतवतीत्येवंरूपलाञ्छनं यस्यास्तादृशी । तस्मिन्मिलिते लक्षणमपीदं न मे
दुःखाय स्यात् । संप्रति तु मृषालक्षणमात्रं मे दुःखदमिति भावः । "केतनं लाञ्छने
काये गृहे चोपनिमन्त्रणे ।" इति विश्वः । "षह मर्षणे" इति चुराद्यन्तर्गणयुजादौ
परस्मैपदी विकल्पेन णिजन्तः पठितः । तस्य णिचोऽभावे विषहामीति प्रयोगः ॥ ३ ॥
<pratika>मामित्यादि ।</pratika> अहहेति खेदे । इयं मधुरा मनोहरा मधुयामिनी वसन्तरात्रिर्मां
विधुरयति विकलयति । कापि कृतं पुण्यं यया एतादृशी कामिनी हरिं कृष्णमनुभवति ।
केलिसमये पश्यति । "विधुरं स्यात्प्रतिश्लेषे विधुरो विकलेऽन्यवत्" इति विश्वः ।
"मधुरं सरसे ज्ञेयं स्वादुन्यपि मनोहरे" इति धरणिः । "स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं
[^१.] "अतिवितथ" इति पाठः । [^२.] "किमिह वि०" इति पाठः । [^३.] "मामिह" इति पाठः ।