2022-10-18 04:14:12 by ambuda-bot
This page has not been fully proofread.
सर्गः ७ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
९७
मम मरणमेव वैरमिति वितथकेतना । 199
किमिति विषहामि विरहानलमचेतना ॥ यामि हे० ॥ ३ ॥
माँमहह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ यामि हे० ॥ ४ ॥
मसमशरकीलितं वर्तते । अथवा यदिति यद्वचनेनाव्यवहितमेव सखीवचनं
परामृश्यते । यद्वचनानुसरणाय गहनं शीलितं तेन तद्वचनहेतुना मम हृदय-
मसमशरपीडितं । वर्तते । अत्र यच्छब्दस्याप्राधान्यात्समासेन निर्गुणत्वाच्च न प्रधा-
नत्वेनान्वयः संभवी, विवक्षितार्थासमर्पकत्वात् ॥ २ ॥ अपि च । ममेति । इहाचे-
तनाहं चैतन्यरहिता विह्वलत्वमाप्ता विरहानलं विषहामि । कथमिति विषहामीति । धा-
त्वन्तरमप्यस्तीत्यवधार्यताम् । तदसद्भावे भ्रान्तिर्मास्तु । तत्संदेहनिराकरणार्थं काम-
धेनावीक्ष्यताम् । अत्र विषय किं शक्ता वित्यस्य ( ? ) दिवादित्वचुरादित्वभ्वादित्व-
परस्मैपदिनो न सन्ति । किंविशिष्टा अहम् । इतीव हेतोः वितथकेतना वितथं केतनमा-
वासो यस्याः । प्रियशून्यत्वात् । अथवा वितथं निमन्त्रणं यस्याः सा । सखीमात्रवचनेन
हि तामनुसरणेन वा ईदृशस्य साहसस्यानुपघातात् । अथवा वितथं केतनं देहो यस्याः
प्रियाप्राप्तेः ॥ एवं सति मम मरणमेव वरं न देहधारणम् ॥ ३ ॥ अपि च ।
मामहहेति । मधुरमधुयामिनी कोमला सरसा वसन्तरात्रिर्मा विधुरं करोति ।
अपि च । कापि कृतसुकृतकामिनी कृपया हरिमनुभवति । एतावताऽहं मन्दभाग्या
।
वरमुत्कृष्टम् । तत्र हेतुमाह — इह वनेऽचेतना समूर्च्छा । यद्वा । अचेतना मूर्च्छया शान-
रहिता । यद्वा । अः कृष्णस्तत्र चेतना बुद्धिर्यस्यास्तादृशी । विरहानलं विरहानिं किमिति
बिषहामि सहे । तथा च । इह मम दुःखस्य कोऽपि शातापि नेत्यरण्यरुदितं किमित्याचरा-
मीति भावः । कीदृश्यहम् । अतिवितथकेतनातिशयेन वितथं मिथ्याभूतं केतनं गृहं यस्या-
स्तादृशी । यद्वा । अतिवितथं केतनं शरीरं यस्याः सा । तथा च । निरुपमसौन्दर्या-
लयमपीदं शरीरं तेन विना विफलमित्यर्थः । अतिवितथकेतन मिमं स्वपतिं विहायान्य-
पुरुषमभिसृतवतीत्येवंरूपलाञ्छनं यस्यास्तादृशी । तस्मिन्मिलिते लक्षणमपीदं न मे
दुःखाय स्यात् । संप्रति तु मृषालक्षणमात्रं मे दुःखदमिति भावः । 'केतनं लाञ्छने
काये गृहे चोपनिमन्त्रणे ।' इति विश्वः । 'पह मर्षणे' इति चुराद्यन्तर्गणयुजादौ
परस्मैपदी विकल्पेन णिजन्तः पठितः । तस्य णिचोऽभावे विषहामीति प्रयोगः ॥ ३ ॥
मामित्यादि । अहहेति खेदे । इयं मधुरा मनोहरा मधुयामिनी वसन्तरात्रिर्मा
विधुरयति विकलयति । कापि कृतं पुण्यं यया एतादृशी कामिनी हरिं कृष्णमनुभवति ।
केलिसमये पश्यति । 'विधुरं स्यात्प्रतिश्लेषे विधुरो विकलेऽन्यवत्' इति विश्वः ।
'मधुरं सरसे ज्ञेयं स्वादुन्यपि मनोहरे' इति धरणिः । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं
'अतिवितथ' इति पाठः । २ 'किमिह वि०' इति पाठः । ३ 'मामिह' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri