This page has been fully proofread once and needs a second look.

मालवरागयतितालाभ्यां गीयते । प्र० ॥ १३ ॥
 
क[^१]थितसमयेऽपि हरिरहह न ययौ वनं
मम विफलमिदममलरूपमपि यौवनम् ।

यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ ध्रुवम् ॥ १ ॥
 
यदनुगमनाय निशि गहनमपि शीलितं
तेन मम हृदयमिदमसमशरकीलितम् ॥ यामि हे ० ॥ २ ॥
 
विना दुःस्था विप्रलब्धा तु सा मता" । आर्या ॥ २ ॥ पूर्वं ध्रुवः । <pratika>यामीति ।</pratika> हे सखि,
इह अस्मिन्नवसरे कं शरणं यामि । किंभूताहम् । <pratika>सखीति ।</pratika> सख्य एव जन इतर-
जनवत् तद्वचनेन त्वमत्र संकेतस्थाने तिष्ठ तमहमानयामि कुतश्चित्कारणादत्रैव
स्थिता या विप्रलब्धा । इति ध्रुवः ॥ अथ पदानि । <pratika>कथितेति ।</pratika> आत्मगतं
कथयति । मम इदं यौवनं विफलम् । किंभूतम् । अमलरूपमपि । अथवा यौवनं रूपं
च द्वयमपि निष्फलम् । अत्रापिशब्दो भूषणकलादीनामनुक्तानां समुच्चयार्थः । अत्र
कारणमाह -- अहह इति कष्टे । हरिः । कथितसमयेऽपि संकेतितकालेऽपि वनं न ययौ
न प्राप्तवान् । यतः "प्रियेषु सौभाग्यफला हि योषितः" ॥ १ ॥ अपि च । <pratika>यदिति ।</pratika>
यद्यस्माद्धेतोर्निशि रात्रौ अनुगमनाय । अर्थात् हरेरनुगमनाय गहनमपि । अपि-
शब्देन यत्कथमपि न क्रियते तदपि शीलितमनुभूतम् । तेन कारणेन मम
इदं हृदयमसमशरकीलितं वर्तते । अथवा यदित्यव्ययं सर्वनामप्रतिरूपकं
यस्येत्यर्थे । यस्यानुस्मरणाय एवं कृतं तेन हेतुना तमेव हेतुं कृत्वा मम हृदय-
 
निराशयाधिकं विललापेति भावः ॥ २ ॥ विविधविलापमेव गीतेन कथयति --
<pratika>कथितेति ।</pratika> गीतस्यास्य गौडमालवरागः । प्रतिमठतालः । गीतार्थस्तु इह विपिने कं जनं
यामि शरणम् । यद्वा कं जलमग्निं यमं च शरणं यामि । तेन विना जलप्रवेशमग्निप्रवेशं
यमगृहं यामीत्यर्थः । कीदृशी । सखीजनानां वचनेन वञ्चिता प्रतारिता । मया हरिरानीयत
एवेति सखीजनेन प्रतारितेत्यर्थः । सख्योऽप्येवं प्रतारिकास्तदा कोऽन्यो विश्वासपात्रं
भवेदिति भावः। "को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च । पावके च मयूरे च
मुखशीर्षजलेषु कम् ॥" इति विश्वः । "शरणं गृहरक्षित्रोः" इत्यमरः । सखीवचनमेवाह --
<pratika>कथितेति ।</pratika> कथितसमयेऽपि सख्यग्रे स्वयमेव कथितो यः समयः कालोऽस्मिन्नवसरे
मया सङ्केतस्थलमागन्तव्यमिति । यद्वा । सख्या मदग्रे यः समयः कथितस्तदपि वनं
सङ्केतनिकुञ्जं न ययौ न गतवान् । इदमारूढमेव मे यौवनं तारुण्यममलरूपमपि
निर्मलसौन्दर्यमपि विफलम् । पूर्वं तदागमनप्रत्याशया स्थितं संप्रत्यवधिलङ्घने निरवधि (?)
दुःखोऽपि भोगोऽसमर्थः । शरीरं त्यक्ष्याम्येव, मम यौवनं यास्यतीति भावः ॥ १ ॥
यस्य कृष्णस्यानुगमनायानुसरणाय निशि रात्रौ गहनमपि शीलितं तेन कृष्णेन
निमित्तभूतेन मम हृदयमसमशरेण कामशरेण कीलितं विद्धम् ॥ २ ॥ मम मरणमेव
 
[^१.] "ललितसमये" इति पाठः । [^२.] मेतदनुरूपमिति पाठः ।