This page has been fully proofread once and needs a second look.

<bold>सप्तमः सर्गः ६ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
● सप्तमः सर्गः

 
</bold>
 
नागरनारायणः ।
 

 
अत्रान्तरे च कुलटाकुलवर्त्मघातंत[^१]-

संजातपातक इव स्फुटलान्ञ्छनश्रीः 1

वृन्दावनान्तरमदीपयदंशुजालै-

र्दिक्सुन्दरीवदनचन्दनविबिन्दुरिन्दुः ॥ १ ॥

 
प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।

विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ २ ॥
 

 
नृपः कुम्भकर्णः श्रुतं वाचि धत्ते

मनोऽधीश्वरासेवने सन्निधत्ते ।

हृदीशं परं वासुदेवं निधत्ते
 

वरं गीतगोविन्दगानं विधत्ते ॥
 
९५
 

इदानीं
 
मानिनीमानखण्डनाखण्डमण्डलं चन्द्रोदयं वर्णयन्नाह - - <pratika>अत्रान्तर

इति ।</pratika> अत्रान्तरे एतस्मिन्नवसरे इन्दुर्वृन्दावनान्तरमं शुदी पैरदीपयत्प्रकाशि-

तवान् । किंविशिष्टः । स्फुटलाञ्छनश्रीः स्फुटकलङ्कशोभः । उत्प्रेक्षते । कुलटाकुल-

वर्त्मघातसंजातपातक इव । अन्योऽपि यः कश्चन यस्य कस्यचन मार्गघातं करोति

स कलङ्की भवत्येव । किंभूत इन्दुः । दिक्सुन्दरीवदन श्रीखण्डतिलक इव ।

वसन्ततिलका । अत्र रूपकोत्प्रेक्षे अलंकृती ॥ १ ॥ इदानीं विप्रलव्ब्धायास्तस्या

विधुरत्वं कथयति -- <pratika>प्रसरतीति ।</pratika> सा राधा उच्चैः परितापं चकार खेदं चकार ।

कथं यथा भवति । विरचित विविधालापं यथा स्यात्तथा । किंभूता सा ।

अतिशयविधुरा । क्व सति । शशधरबिम्बे प्रसरति उद्गच्छति सति । माधवे

च कृतविलम्बे सति । '"प्रेष्य दूतीं स्वयं दत्त्वा निकेतं नागतः प्रियः । यस्यास्तेन
 

 
<pratika>
अत्रान्तर इति । </pratika>अत्रान्तरेऽस्मिन्नवसरे । इन्दुश्चन्द्रोंऽशुजालैः किरणसमूहैर्वृन्दावनान्तरं

वृन्दावनमध्यमदीपयत्प्रकाशितवान् । दिक्पूर्वा दिवसैव सुन्दरी कामिनी तस्या

वदनस्य मुखस्य चन्दनबिन्दुर्मण्डलाकारतिलकम् । अत्र पूर्णचन्द्रो वर्ण्यत्वेन बोध्यः ।

खण्डचन्द्रे चन्दनबिन्दुसादृश्याभावात् । पुनः कीदृशः । स्फुटीभूता प्रकटिता लाञ्छनस्य

कलङ्कस्य श्रीः शोभा यत्र तादृशः । कुलटाकुलस्य व्यभिचारिणीसमूहस्य यो वर्त्मपातः

संकेतगमनमार्गप्रतिरोधस्तेन संजातं पातकं यस्य सः । अपरस्यापि कृतपापस्य कलङ्कः

स्फुटीभवतीति ध्वनिः ॥ १ ॥ <pratika>प्रसरतीति ।</pratika> शशधरबिम्बे चन्द्रबिम्बे प्रसरति

सति । माधवे कृष्णे विहितविलम्बे कृतकालक्षेपे सति । विधुरा दुःखिता राधोच्चैः

परितापं चकार । विरचितो विविधो नानाविधो विलापो यत्रैवं यथा स्यात् । पूर्
वं
तदागमनशङ्काप्यासीत् । चन्द्र उदितेऽभिसारिणां कुत्र संचार इति तदागमनं प्रति

 
[^
'.] "वर्त्मपात'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri