This page has not been fully proofread.

सर्गः ६ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
● सप्तमः सर्गः ७
 
नागरनारायणः ।
 
अत्रान्तरे च कुलटाकुलवर्त्मघातं-
संजातपातक इव स्फुटलान्छनश्रीः 1
वृन्दावनान्तरमदीपयदंशुजालै-
॥र्दिक्सुन्दरीवदनचन्दनविन्दुरिन्दुः ॥ १ ॥
प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ २ ॥
 
नृपः कुम्भकर्णः श्रुतं वाचि धत्ते
मनोऽधीश्वरासेवने सन्निधत्ते ।
हृदीशं परं वासुदेवं निधत्ते
 
वरं गीतगोविन्दगानं विधत्ते ॥
 
९५
 
इदानीं
 
मानिनीमानखण्डनाखण्डमण्डलं चन्द्रोदयं वर्णयन्नाह - अत्रान्तर
इति । अत्रान्तरे एतस्मिन्नवसरे इन्दुर्वृन्दावनान्तरमं शुदी पैरदीपयत्प्रकाशि-
तवान् । किंविशिष्टः । स्फुटलाञ्छनश्रीः स्फुटकलङ्कशोभः । उत्प्रेक्षते । कुलटाकुल-
वर्त्मघातसंजातपातक इव । अन्योऽपि यः कश्चन यस्य कस्यचन मार्गघातं करोति
स कलङ्की भवत्येव । किंभूत इन्दुः । दिक्सुन्दरीवदन श्रीखण्डतिलक इव ।
वसन्ततिलका । अत्र रूपकोत्प्रेक्षे अलंकृती ॥ १ ॥ इदानीं विप्रलव्धायास्तस्या
विधुरत्वं कथयति – प्रसरतीति । सा राधा उच्चैः परितापं चकार खेदं चकार ।
कथं यथा भवति । विरचित विविधालापं यथा स्यात्तथा । किंभूता सा ।
अतिशयविधुरा । क्व सति । शशधरबिम्बे प्रसरति उद्गच्छति सति । माधवे
च कृतविलम्बे सति । 'प्रेष्य दूतीं स्वयं दत्त्वा निकेतं नागतः प्रियः । यस्यास्तेन
 
अत्रान्तर इति । अत्रान्तरेऽस्मिन्नवसरे । इन्दुश्चन्द्रोंऽशुजालैः किरणसमूहैर्वृन्दावनान्तरं
वृन्दावनमध्यमदीपयत्प्रकाशितवान् । दिक्पूर्वा दिवसैव सुन्दरी कामिनी तस्या
वदनस्य मुखस्य चन्दनबिन्दुर्मण्डलाकारतिलकम् । अत्र पूर्णचन्द्रो वर्ण्यत्वेन बोध्यः ।
खण्डचन्द्रे चन्दनबिन्दुसादृश्याभावात् । पुनः कीदृशः । स्फुटीभूता प्रकटिता लाञ्छनस्य
कलङ्कस्य श्रीः शोभा यत्र तादृशः । कुलटाकुलस्य व्यभिचारिणीसमूहस्य यो वर्त्मपातः
संकेतगमनमार्गप्रतिरोधस्तेन संजातं पातकं यस्य सः । अपरस्यापि कृतपापस्य कलङ्कः
स्फुटीभवतीति ध्वनिः ॥ १ ॥ प्रसरतीति । शशधरबिम्बे चन्द्रबिम्बे प्रसरति
सति । माधवे कृष्णे विहितविलम्बे कृतकालक्षेपे सति । विधुरा दुःखिता राधोच्चैः
परितापं चकार । विरचितो विविधो नानाविधो विलापो यत्रैवं यथा स्यात् । पूर्व
तदागमनशङ्काप्यासीत् । चन्द्र उदितेऽभिसारिणां कुत्र संचार इति तदागमनं प्रति
१ 'वर्त्मपात' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri