2022-11-02 11:14:48 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः ॥ ४ ॥
इति श्रीगीतगोविन्दे वासकसज्जावर्णने धन्यवैकुण्ठो
नाम षष्ठः सर्गः ॥ ६ ॥
[ सर्ग: ६
कालेऽतिथयः सायमतिथयः तेषां प्राशस्त्यं स्वागतादिसंभारेण प्रशंसा, तद्गर्भे यासां
ताः । तथा किंविशिष्टस्य गोविन्दस्य । नन्दान्तिके नन्दसमीपे तत्तादृक्सङ्केतसूच-
नारूपमध्वगमुखान्निःसृतं राधाया वचनं गोपतः गोपायितुः । गां पालयतीति गोपः
गोपायतेः पचाद्यच् ।
अत्र पितुः सङ्केताशङ्का मा प्रासांक्षीदिति गोपने तात्पर्यम् । अत्र तदप
रलंकारः । प्रशंसाछद्मना व्याजोक्तिरपि । पितुः समीपे तादृग्वचो लज्जावह
<error>तदपाकरणार्थं</error><fix>तदपाकरणार्थम्</fix> अप्रस्तुतप्रशंसापि । तदिति किम् । हे भ्रातः पथिक, भाण्डी
इतः वटवृक्षे । किं विश्राम्यसि । अत्र विश्रामं मा कृथाः । कुत इति हेतुगर्भविशेषण-
माह । किंविशिष्टे वृक्षे । कृष्णभोगिभवने । कृष्णश्चासौ भोगी च कृष्णभोगी तस्य भव-
नं तस्मिन् । कृष्णसर्पावासे इत्यर्थः । अत्र भ्रातृपदेन भ्रातृव्यत्वम् । तेन च मत्सङ्केत-
स्थानमेतदिति व्यज्यते । पक्षे कृष्णश्चासौ भोगी शृङ्गारी च तस्य निवासः । अत्रार्थद्व-
याश्लेषिकृष्णशब्देन श्लेषोऽलंकारः । तर्हि किं कुर्वि
न्दास्पदं न यासि अपि तु याहि इति लोडर्थलक्षणो लट् । सानन्दमृद्धिम
चेति । अनेनात्र अन्यपरित्यागेन यत्प्रार्थ्यते तत्सुलभमिति । तर्हि दूरे भविष्यतीत्या-
शङ्
सर्पदंशादकुशलतामाप्स्यसीति औचितीमाह । अत्र कृष्णवटाद्यैरालम्बनैर्विभावैस्त-
दपाकृति
अलंकृती ॥
।
निसर्गचित्रोज्ज्वलयुक्तिसर्गं व्याचष्ट षष्ठं रसिकप्रियायाः ।
सर्ग नृपग्रामकिरीटरत्नं श्रीकुम्भकर्णस्तृणितस्मरोऽत्र ॥
इति श्रीमहाराजाधिराजाभिनवभरतश्रीकुम्भकर्णविरचिते श्रीकुम्भस्वामि-
मन्दरस्वादरे गीतगोविन्दविवरणे वासकसज्जावर्णने
धन्यवैकुण्ठो नाम षष्ठः सर्गः ॥ ६ ॥
गुणेषु ये दोषदृशः परेषां ब्रूमः स्वदोषावरणाय किं तान् ।
स्वतः पिधास्यन्ति ममात्र दोषान्सन्तस्ततस्तानपि किं ब्रवीमि ॥
इति श्रीमहामहोपाध्याय
गीतगोविन्दटीकायां षष्ठः सर्गः ॥ ६ ॥
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri