This page has not been fully proofread.

गीतगोविन्दकाव्यम्
 
राधाया वचनं तद्ध्वगमुखान्नन्दान्तिके गोपतो
 
गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः ॥ ४ ॥
इति श्रीगीतगोविन्दे वासकसज्जावर्णने धन्यवैकुण्ठो
नाम षष्ठः सर्गः ॥ ६ ॥
 
[ सर्ग: ६
 
कालेऽतिथयः सायमतिथयः तेषां प्राशस्त्यं स्वागतादिसंभारेण प्रशंसा, तद्गर्भे यासां
ताः । तथा किंविशिष्टस्य गोविन्दस्य । नन्दान्तिके नन्दसमीपे तत्तादृक्सङ्केतसूच-
नारूपमध्वगमुखान्निःसृतं राधाया वचनं गोपतः गोपायितुः । गां पालयतीति गोपः
गोपायतेः पचाद्यच् । 'आदाय :-' इति तलोपे सार्वविभक्तिकस्तसिः । तस्य गोपतः ।
अत्र पितुः सङ्केताशङ्का मा प्रासांक्षीदिति गोपने तात्पर्यम् । अत्र तदपहवादपहुति-
रलंकारः । प्रशंसाछद्मना व्याजोक्तिरपि । पितुः समीपे तादृग्वचो लज्जावह मिति
तदपाकरणार्थं अप्रस्तुतप्रशंसापि । तदिति किम् । हे भ्रातः पथिक, भाण्डी र भूमी रुहि
इतः वटवृक्षे । किं विश्राम्यसि । अत्र विश्रामं मा कृथाः । कुत इति हेतुगर्भविशेषण-
माह । किंविशिष्टे वृक्षे । कृष्णभोगिभवने । कृष्णश्चासौ भोगी च कृष्णभोगी तस्य भव-
नं तस्मिन् । कृष्णसर्पावासे इत्यर्थः । अत्र भ्रातृपदेन भ्रातृव्यत्वम् । तेन च मत्सङ्केत-
स्थानमेतदिति व्यज्यते । पक्षे कृष्णश्चासौ भोगी शृङ्गारी च तस्य निवासः । अत्रार्थद्व-
याश्लेषिकृष्णशब्देन श्लेषोऽलंकारः । तर्हि किं कुर्विव्यायाह । इतो वटात्सानन्दन-
न्दास्पदं न यासि अपि तु याहि इति लोडर्थलक्षणो लट् । सानन्दमृद्धिमञ्च तन्नन्दास्पदं
चेति । अनेनात्र अन्यपरित्यागेन यत्प्रार्थ्यते तत्सुलभमिति । तर्हि दूरे भविष्यतीत्या-
शङ्ख्याह । दृष्टिगोचरं आसन्नमेव । सानन्देति पथिक विशेषणं वा । सांप्रतमानन्देऽपि
सर्पदंशादकुशलतामाप्स्यसीति औचितीमाह । अत्र कृष्णवटाद्यैरालम्बनैर्विभावैस्त-
दपाकृति निषेधाभिव्यक्तो रतिस्थायी विप्रलम्भाख्यः शृङ्गारो रसः । आशीरुत्तरे
अलंकृती ॥
 

 
निसर्गचित्रोज्ज्वलयुक्तिसर्गं व्याचष्ट षष्ठं रसिकप्रियायाः ।
सर्ग नृपग्रामकिरीटरत्नं श्रीकुम्भकर्णस्तृणितस्मरोऽत्र ॥
इति श्रीमहाराजाधिराजाभिनवभरतश्रीकुम्भकर्णविरचिते श्रीकुम्भस्वामि-
मन्दरस्वादरे गीतगोविन्दविवरणे वासकसज्जावर्णने
धन्यवैकुण्ठो नाम षष्ठः सर्गः ॥ ६ ॥
 
गुणेषु ये दोषदृशः परेषां ब्रूमः स्वदोषावरणाय किं तान् ।
स्वतः पिधास्यन्ति ममात्र दोषान्सन्तस्ततस्तानपि किं ब्रवीमि ॥
इति श्रीमहामहोपाध्याय श्री शंकर मिश्र विरचितायां श्रीशालिनाथकारितायां
गीतगोविन्दटीकायां षष्ठः सर्गः ॥ ६ ॥
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri