2022-10-18 04:14:10 by ambuda-bot
This page has not been fully proofread.
सर्ग: ६ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत-
९३
व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ३ ॥
किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि
भ्रातर्यासि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् ।
हे माधव, एषा मत्सखी । एषेति एतत्पदप्रत्यक्षे व्यापाराद्बुद्धौ प्रत्यक्षीकृत्याह ।
एषा वरतनुरित्येवंक्रमेण आकल्पविकल्पतल्परचना संकल्प लीलाशतव्यासतापि नेप-
थ्य वितर्ककिसलयशय्याविरचनत्वत्प्रात्युचित विलासशयनेष्वासक्तापि सती त्वया विना
निशां न नेष्यति निशां नेतुं न शक्ता भविष्यतीति । इतीति किम् । तान्येव
कानिचिदाह । अङ्गेषु अवयवेषु त्वच्चित्तापहारि आभरणं करोति । कथं । बहुशः ।
बहुश इति अननुरूपपरित्यागेन त्वचित्तप्रीतिकरपरिग्रहो द्योत्यते । अपि च । पत्रे
वृक्षपत्रे पतत्रिपक्षेऽपि वा । अपिशब्दात्तृणादिपरिस्पन्दो लभ्यते । तस्मिन्संचारिणि
संचरणशीले त्वामेव प्राप्तं परिशङ्कते विचारयति । अत्र एवकारं विनापि 'पार्थो
धनुर्धरः' इतिवत्सर्वाणि वाक्यानि सावधारणान्येवेति कृत्वा एवकाराक्षेपः । अपि च
अवश्यमागमिष्यतीति कृत्वा शय्यां वितनुते । ततस्त्वामपश्यन्ती चिरं त्वामेव
ध्यायति । शय्यां विरचय्य तेन सह मयात्रैव कामकेलयः कर्तव्या इति चिरं
ध्यायति । अन्योऽपि यः कश्चिन्मानसव्यथाभिभूतो रजन्यतिवाहनेऽसमर्थः स तदति-
वाहनार्थ कार्यान्तरव्यासत्या चेतो रमयति । शार्दूलविक्रीडितं वृत्तं, समुच्चयोऽलंकारः
॥ ३ ॥ इदानीमाशीर्व्याजेन सर्गान्तमा विष्करोति - किसिति । गोविन्दस्य गिरो
जयन्ति सर्वोत्कर्षेण वर्तन्ते । भावगर्भतया वक्तुर्वेदग्ध्यख्यापनेन सर्वोत्कृष्टत्वम् ।
तत्त्वेन च नमस्कार्यत्वम् । किंभूता गिरो वाचः । सायमतिथिप्राशस्त्यगर्भाः । सायं-
1
-3
वरतनुः सुन्दरी रात्रिं न नेष्यति न प्रभातं प्रापयिष्यति । कीदृशी । इत्यनेन प्रकारे-
णाकल्पोऽलंकारो विकल्पस्त्वदागमनशङ्का तल्पं शय्या तद्रचना संकल्पस्त्वदीय सङ्गादि-
ध्यानमित्यादिलीलाशतव्यासङ्गेऽपि त्वत्सङ्गाभिलाषिण्यास्तस्या न कुत्रापि मनो रमत इति
भावः । अलंकारादिव्यासङ्गमेवाह — अङ्गेष्विति । अङ्गेष्वाभरणं करोतीति भावः ।
अनेनाकल्प उक्तः । अथ च बहुशो वारंवारं पत्रेऽपि संचारिणि पक्ष्यादौ चरणघातेन
चलति सति त्वां प्राप्तमागतं परिशङ्कते। अनेन विकल्प उक्तः । अथ च शय्यां शयनीयं
वितनुते विस्तारयति । अनेन तल्परचनोक्ता । अथ च चिरं बहुकालं व्याप्य त्वां ध्यायति
चिन्तयति । अनेन संकल्प उक्तः । तथा च तवागमनप्रत्याशया एतैर्व्यापारैः संप्रति कालं
नयति । यदि च सर्वथा त्वया न गन्तव्यं तदा त्वत्सङ्गं प्रति निराशा सती रात्रि नेतुं न
शक्ष्यतीति भावः । अल्पताख्यश्च हावो वर्णितः । तदुक्तम् – 'अल्पता सा तु कथिता
प्रियस्यागमने सति । दिदृक्षयोस्तद्वत्संभ्रममलंकृति' (?) इति । 'आकल्पवेषौ नेपथ्यम्'
इत्यमरः । 'तर्को विकल्पः शङ्का च' इति च । 'तल्पं च शयनीये स्यात्तल्पमट्टकलत्रयोः '
इति विश्वः । 'संकल्पः कर्म मानसम्' इत्यमरः ॥ ३ ॥ ( किं विश्राम्यसीत्यादिश्लोकस्य
व्याख्यानं नोपलभ्यतेऽस्यां टीकायाम् ) ॥ ४ ॥
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri