This page has been fully proofread once and needs a second look.

९२
 
गीतगोविन्दकाव्यम्
 
विपुलपुलकपालिः स्फीतसीत्कारमन्त-

र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।

तव कितव विधायामन्दकन्दर्पचिन्तां

रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ २ ॥

 
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि
 

प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
 
[ सर्गः ६
 
"
 

 

 
दिवर्णनम् । पदसंततितस्तेनाः पाटाः स्वरसमुच्चयः ॥ ततः पद्यानि यत्र स्यु -
र्ल-
यमध्यममानतः । स प्रबन्धवरो ज्ञेयो धन्यवैकुण्ठकुङ्कुमः ॥'" इति धन्यवैकुण्ठ-

कुङ्कुमनामा द्वादशः प्रबन्धः । शठो नायकः । गूढविप्रियकृच्छठः । चिन्तात्वरावती

वासकसज्जा नायिका । तल्लक्षणं – '-- "केली गृहमथात्मानं मण्डयत्येष्यति प्रिये ।

सखी दूती······समाप्तिं समगादिति'" ( ? ) ॥ ८ ॥ इदानीं तस्यास्तदेकपरत्वमाह-
--
<pratika>
विपुलेति । </pratika>हे कितव धूर्त, सा मृगाक्षी तव अमन्दकन्दर्पचिन्तामतिशयितकाम-

चिन्तां कृत्वा विधाय ध्यानलग्ना सती स्मरजलनिधिमग्ना शृङ्गारसागरे लीना

किंभूता सा । विपुला महती रोमाञ्चपङ्किक्तिर्यस्याः सा । अपि किंभूता । स्फीत सीत्कारं

प्रवृद्धसीत्कारं यथा स्यात्तथा । अन्तः अर्थात् विरहेणैव जनिताभ्यां जडिमकाकुभ्यां

व्याकुलं यथा स्यात्तथा व्याहरन्ती भाषमाणा । '"ननमयययुतेयं मालिनी भोगिलोकैः'
"
इति मालिनी छन्दः । रसवदलंकारः ॥ २ ॥ इदानीं सा राधा ध्यानादिना त्वया

सह रममाणापि साक्षात्त्वामलभमाना न कथंचिन्निर्वृतिमेष्यतीत्याह - - <pratika>अङ्गेष्विति ।
</pratika>
 
मुदितमतिशयेनानन्दितं तनुतां विस्तारयतु ॥ ८ ॥ विपुलेति । …………… इ[^१]त्यादि-

कन्दर्पचिन्तां विधाय तथापि त्वं चेन्न मिलसि तदा तव ध्यानमेवाचरतीत्यर्थ:थः । कीदृशी

विपुला प्रचुरा पुलकपालि:लिः रोमाञ्चपङ्किर्थक्तिर्यस्याः । ध्यानकल्पितत्वत्करस्पर्शोद्भूतरोमाञ्चव-

तीत्यर्थः । किं कुर्वती । काकुव्याकुलं यथा स्यात्काक्वा ध्वनिविका ध्वनिविकार विशेषेण व्याकुलं

यथा स्यादेवं व्याहरन्ती । ध्यानेनैव तव करं नीवीबन्धनोन्मोचनासक्तं परिकल्प्य

कुट्टिमिताख्यहावमाश्रिता मुञ्च मामित्यादि निषेधकं वाक्यं कथयन्तीति भावः

पुनः कथं यथा स्यात् । स्फीतः प्रवृद्धः सीत्कारो यत्र एवं यथा स्यात् । ध्यानेनैव-

त्वद्दत्तनखक्षतादिकं परिकल्प्य सीत्कारं करोतीति भावः । पुनः कथं यथा स्यात् ।

अन्तश्चित्ते जनितो जडिमा जाड्यं यत्रैवं यथा स्यात् । ध्यानकल्पितविलासबाह्यादि समय-

स्तब्धाख्यः ( स्तम्भाख्यः ) सात्विको भवति । अन्यस्यापि जलनिधिमग्नस्यान्तर्जाड्यशी-

तवशात्सीत्कारो व्याकुलं त्रुट्यद्वर्णं यथा स्यादेवं भवतीति ध्वनिः । इयं च जडताख्या

पञ्चम्यवस्था । तल्लक्षणं चोक्तं प्राक् । कुट्टिमितलक्षणं रसार्णवसुधाकरे–' -- "केशाधरादिग्रहणे

मोदमानापि मानसे । दुःखितेव बहिः कुप्येद्यत्र कुट्टिमितं तु तत्'" इति । '"स्तम्भश्चेष्टा

प्रतिध्वनिः'" इति शृङ्गारदीपिका । '"काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः '
"
इत्यमरः ॥ २ ॥ पुनः कृष्णं त्वरयितुमाह -- <pratika>अङ्गेष्विति ।</pratika> हे कृष्ण, त्वया विना
 
1
 

 
-
 

 
[^
.] अत्र टीकांशस्त्रुटित इव भात्यादर्शपुस्तके ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri