2022-10-18 04:14:10 by ambuda-bot
This page has not been fully proofread.
९२
गीतगोविन्दकाव्यम्
विपुलपुलकपालिः स्फीतसीत्कारमन्त-
र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां
रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ २ ॥
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
[ सर्गः ६
"
—
दिवर्णनम् । पदसंततितस्तेनाः पाटाः स्वरसमुच्चयः ॥ ततः पद्यानि यत्र स्यु -
यमध्यममानतः । स प्रबन्धवरो ज्ञेयो धन्यवैकुण्ठकुङ्कुमः ॥' इति धन्यवैकुण्ठ-
कुङ्कुमनामा द्वादशः प्रबन्धः । शठो नायकः । गूढविप्रियकृच्छठः । चिन्ताखरावती
वासकसज्जा नायिका । तल्लक्षणं – 'केली गृहमथात्मानं मण्डययेष्यति प्रिये ।
सखी दूती······समाप्तिं समगादिति' ( ? ) ॥ ८ ॥ इदानीं तस्यास्तदेकपरत्वमाह-
विपुलेति । हे कितव धूर्त, सा मृगाक्षी तव अमन्दकन्दर्पचिन्तामतिशयितकाम-
चिन्तां कृत्वा विधाय ध्यानलग्ना सती स्मरजलनिधिमना शृङ्गारसागरे लीना
किंभूता सा । विपुला महती रोमाञ्चपङ्किर्यस्याः सा । अपि किंभूता । स्फीत सीत्कारं
प्रवृद्धसीत्कारं यथा स्यात्तथा । अन्तः अर्थात् विरहेणैव जनिताभ्यां जडिमकाकुभ्यां
व्याकुलं यथा स्यात्तथा व्याहरन्ती भाषमाणा । 'ननमयययुतेयं मालिनी भोगिलोकैः'
इति मालिनी छन्दः । रसवदलंकारः ॥ २ ॥ इदानीं सा राधा ध्यानादिना त्वया
सह रममाणापि साक्षात्त्वामलभमाना न कथंचिन्निर्वृतिमेष्यतीत्याह - अङ्गेष्विति ।
मुदितमतिशयेनानन्दितं तनुतां विस्तारयतु ॥ ८ ॥ विपुलेति ।…………… ईत्यादि-
कन्दर्पचिन्तां विधाय तथापि त्वं चेन्न मिलसि तदा तव ध्यानमेवाचरतीत्यर्थ: । कीदृशी
विपुला प्रचुरा पुलकपालि: रोमाञ्चपङ्किर्थस्याः । ध्यानकल्पितत्वत्करस्पर्शोद्भूतरोमाञ्चव-
तीत्यर्थः । किं कुर्वती । काकुव्याकुलं यथा स्यात्काका ध्वनिविकार विशेषेण व्याकुलं
यथा स्यादेवं व्याहरन्ती । ध्यानेनैव तव करं नीवीबन्धनोन्मोचनासक्तं परिकल्प्य
कुट्टिमिताख्यहावमाश्रिता मुञ्च मामित्यादि निषेधकं वाक्यं कथयन्तीति भावः
पुनः कथं यथा स्यात् । स्फीतः प्रवृद्धः सीत्कारो यत्र एवं यथा स्यात् । ध्यानेनैव-
त्वद्दत्तनखक्षतादिकं परिकल्प्य सीत्कारं करोतीति भावः । पुनः कथं यथा स्यात् ।
अन्तश्चित्ते जनितो जडिमा जाड्यं यत्रैवं यथा स्यात् । ध्यानकल्पितविलासबाह्यादि समय-
स्तब्धाख्यः ( स्तम्भाख्यः ) सात्विको भवति । अन्यस्यापि जलनिधिमग्नस्यान्तर्जाड्यशी-
तवशात्सीत्कारो व्याकुलं त्रुट्यद्वर्णं यथा स्यादेवं भवतीति ध्वनिः । इयं च जडताख्या
पञ्चम्यवस्था । तल्लक्षणं चोक्तं प्राक् । कुट्टिमितलक्षणं रसार्णवसुधाकरे–'केशाधरादिग्रहणे
मोदमानापि मानसे । दुःखितेव बहिः कुप्येद्यत्र कुट्टिमितं तु तत्' इति । 'स्तम्भश्चेष्टा
प्रतिध्वनिः' इति शृङ्गारदीपिका । 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः '
इत्यमरः ॥ २ ॥ पुनः कृष्णं त्वरयितुमाह — अङ्गेष्विति । हे कृष्ण, त्वया विना
1
।
-
१ अत्र टीकांशस्त्रुटित इव भात्यादर्शपुस्तके ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri