This page has been fully proofread once and needs a second look.

सर्ग: ६ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ९१
 
त्वरितमुपैति न कथमभिसारम् ।
 

हरिरिति वदति सखीमनुवारम् ॥ नाथ हरे० ॥ ५ ॥

 
श्
लिष्यति चुम्बति जलधरकल्पम् ।
 

हरिरुपगत इति तिमिरमनल्पम् ॥ नाथ हरे० ॥ ६ ॥

 
भवति विलम्बिनि विगलितलज्जा ।
 

विलपति रोदिति वासकसज्जा ॥ नाथ हरे० ॥ ७ ॥

 
श्रीजयदेवकवेरिदमुदितम् ।
 

रसिकजनं तनुतामतिमुदितम् ॥ नाथ हरे० ॥ ८ ॥
 

 
<pratika>
त्वरितेति ।</pratika> सा राधा अनुवारं वारंवारं सखीमिति वदति । इतीति किम् । हे

सखि, हरिस्त्वरितं शीघ्रं अभिसारं सङ्केतस्थानं कथं नोपैति कथं न याति ॥ ५ ॥

<pratika>
श्लिष्यतीति । </pratika>हे हरे, सा हरिरुपगत इति कृत्वा स्निग्धनीलत्वसाम्यादनपं

स्थूलं तिमिरमन्धकारं श्लिष्यति चुम्बति च । किंभूतं तिमिरम् । किंचिज्जलधरसदृशम्

॥ ६ ॥ <pratika>भवतीति ।</pratika> हे हरे, सा वासकसज्जा नाम नायिका । भवति त्वयि विलम्बन-

कारिणि सति विलपति विलापान्करोति । रोदिति अश्रूणि विमुञ्चति । '"दूतीमहरहः प्रेष्य

सज्जिते वासवेश्मनि । यस्या न मिलति प्रेयान्सा हि वासकसज्जिका ॥" इति ॥ ७ ॥

<pratika>
श्रीजयदेवेति ।</pratika> श्रीजयदेवकवेरिदमुदितं रसिकजनं अतिमुदितं हृष्टतरं तनु-

ताम् । अथवा रसिकजने मुदितं हर्षं तनुताम् ॥ ८ ॥ तथा च सङ्गीतराजे
'

"
मालवीयः स्मृतो गौडो रागस्तालोऽड्डतालकः । शृङ्गारो विप्रलम्भाख्यो रसो देवा-

 
मधुरिपुरिति चिन्तयन्तीति भावः । लीला च हावविशेषस्तदाह वात्स्यायन: – 'नः -- "प्रयोजन
स्य
चेष्टा या···(?) । क्रियतेऽनुकृतिः सेयं लीलोक्ता मुनिसत्तमैः'" इति ॥ ४ ॥ <pratika>त्वरितमिति ।
</pratika>
हरिस्त्वरितमभिसारकुञ्जं कथं नोपैत्यागच्छतीति सखीमनुवारं सा वदति ॥ ५ 1}

<pratika>श्
लिष्यतीति ।</pratika> सा हरि:रिः कृष्ण उपगत आगत इति बुद्ध्यानल्पमधिकं तिमिरमन्धकारं

श्लिष्यत्यालिङ्गति चुम्बति च । कीदृशं तिमिरम् । जलधरकल्पं श्याममेसदृशम् । यदा

यदोत्थाय तवान्तिकं चलति तदा तदा निकुञ्जद्वारि पुनीञ्जीभूतमन्धकारं दृष्ट्वा त्वद्भ्रमात्तस्यैव

चुम्बनालिङ्गनादिकमाचरतीत्यागन्तुमेव न पारयतीति भावः । भ्रान्तिमानयमलंकारः ।

तलक्षणं प्रागेवोक्तम् ॥ ६ ॥ <pratika>भवतीति ।</pratika> पश्चाद्विशेषदर्शने सति, भवति त्वयि विलम्बिनि

विलम्बं कुर्वति सति विगलितलज्जा सती सा वासके लीलागृहे कान्ताभिसरणाय

सज्जा संभृतसकललीलोपकरणा विलपति । हे निष्कृप, कथमेतावदौदास्यं मयि

त्वया रचित मिति विलापं करोति । रोदिति रोदनं करोति । वासकसज्जालक्षणं तु

रसार्णवसुधाकरे—' -- "भरताद्यैरति (?) देव स्त्रीणां वासस्तु बावासकः । स्ववासकवशात्कान्ते

समेष्यति गृहं प्रति । सज्जीकरोति चात्मानं या सा वासकसज्जिका'" इति । शृङ्गारतिलके
'
--
"
भवेद्वासकसज्जासौ सज्जिताङ्गरतालया'" इति ॥ ७ ॥ <pratika>श्रीजयदेवेति ।</pratika> श्रीजयदेवकवेरिद-

मुदितं कथितम् । रसिकजनं शृङ्गाररसास्वादपुरःसरभगवद्भक्तिरूपरसास्वादग्राहिणमति-
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri