This page has not been fully proofread.

सर्ग: ६ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ९१
 
त्वरितमुपैति न कथमभिसारम् ।
 
हरिरिति वदति सखीमनुवारम् ॥ नाथ हरे० ॥ ५ ॥
लिष्यति चुम्बति जलधरकल्पम् ।
 
हरिरुपगत इति तिमिरमनल्पम् ॥ नाथ हरे० ॥ ६ ॥
भवति विलम्बिनि विगलितलज्जा ।
 
विलपति रोदिति वासकसज्जा ॥ नाथ हरे० ॥ ७ ॥
श्रीजयदेवकवेरिदमुदितम् ।
 
रसिकजनं तनुतामतिमुदितम् ॥ नाथ हरे० ॥ ८ ॥
 
त्वरितेति । सा राधा अनुवारं वारंवारं सखीमिति वदति । इतीति किम् । हे
सखि, हरिस्त्वरितं शीघ्रं अभिसारं सङ्केतस्थानं कथं नोपैति कथं न याति ॥ ५ ॥
श्लिष्यतीति । हे हरे, सा हरिरुपगत इति कृत्वा स्निग्धनीलत्वसाम्यादनपं
स्थूलं तिमिरमन्धकारं श्लिष्यति चुम्बति च । किंभूतं तिमिरम् । किंचिज्जलधरसदृशम्
॥ ६ ॥ भवतीति । हे हरे, सा वासकसज्जा नाम नायिका । भवति त्वयि विलम्बन-
कारिणि सति विलपति विलापान्करोति । रोदिति अश्रूणि विमुञ्चति । 'दूतीमहरहः प्रेष्य
सज्जिते वासवेश्मनि । यस्या न मिलति प्रेयान्सा हि वासकसज्जिका ॥" इति ॥ ७ ॥
श्रीजयदेवेति । श्रीजयदेवकवेरिदमुदितं रसिकजनं अतिमुदितं हृष्टतरं तनु-
ताम् । अथवा रसिकजने मुदितं हर्षं तनुताम् ॥ ८ ॥ तथा च सङ्गीतराजे
'मालवीयः स्मृतो गौडो रागस्तालोऽड्डतालकः । शृङ्गारो विप्रलम्भाख्यो रसो देवा-
मधुरिपुरिति चिन्तयन्तीति भावः । लीला च हावविशेषस्तदाह वात्स्यायन: – 'प्रयोजन य
चेष्टा या···(?) । क्रियतेऽनुकृतिः सेयं लीलोक्ता मुनिसत्तमैः' इति ॥ ४ ॥ त्वरितमिति ।
हरिस्त्वरितमभिसारकुञ्जं कथं नोपैत्यागच्छतीति सखीमनुवारं सा वदति ॥ ५ 1}
लिष्यतीति । सा हरि: कृष्ण उपगत आगत इति बुद्ध्यानल्पमधिकं तिमिरमन्धकारं
श्लिष्यत्यालिङ्गति चुम्बति च । कीदृशं तिमिरम् । जलधरकल्पं श्याममेधसदृशम् । यदा
यदोत्थाय तवान्तिकं चलति तदा तदा निकुञ्जद्वारि पुनीभूतमन्धकारं दृष्ट्वा त्वद्भ्रमात्तस्यैव
चुम्बनालिङ्गनादिकमाचरतीत्यागन्तुमेव न पारयतीति भावः । भ्रान्तिमानयमलंकारः ।
तलक्षणं प्रागेवोक्तम् ॥ ६ ॥ भवतीति । पश्चाद्विशेषदर्शने सति, भवति त्वयि विलम्बिनि
विलम्बं कुर्वति सति विगलितलज्जा सती सा वासके लीलागृहे कान्ताभिसरणाय
सज्जा संभृतसकललीलोपकरणा विलपति । हे निष्कृप, कथमेतावदौदास्यं मयि
त्वया रचित मिति विलापं करोति । रोदिति रोदनं करोति । वासकसज्जालक्षणं तु
रसार्णवसुधाकरे—'भरताद्यैरति (?) देव स्त्रीणां वासस्तु बासकः । स्ववासकवशात्कान्ते
समेष्यति गृहं प्रति । सज्जीकरोति चात्मानं या सा वासकसज्जिका' इति । शृङ्गारतिलके
'भवेद्वासकसज्जासौ सज्जिताङ्गरतालया' इति ॥ ७ ॥ श्रीजयदेवेति । श्रीजयदेवकवेरिद-
मुदितं कथितम् । रसिकजनं शृङ्गाररसास्वादपुरःसरभगवद्भक्तिरूपरसास्वादग्राहिणमति-
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri