This page has been fully proofread once and needs a second look.

९०
 
गीतगोविन्दकाव्यम्
 
[ सर्गः ६
 
त्वदभिसरणरभसेन वैव[^१]लन्ती ।
 

पतति पदानि कियन्ति चलन्ती ॥ नाथ हरे० ॥ २ ॥

 
विहितविशद बिस किसलयवलया ।
 

जीवति परमिह तव रतिकलया ॥ नाथ हरे० ॥ ३ ॥

 
मुहुरवलोकितमण्ड[^२]नलीला ।
 

मधुरिपुरहमिति भावनशीला ॥ नाथ हरे० ॥ ४ ॥
 

 
तस्या राधाया एव अधरमधूनि पिबन्तम् । एवमवस्थमेवेत्यर्थः । तदधरसंसर्गान्मधु-

राणि मधूनि यान्यक्षराणि तानि शृण्वन्तम् । अत्यादरं श्रवणं पानमुच्यते । तस्या-

दरश्रवणेन तस्यालीकत्वं द्योत्यते । प्रतिवञ्चनाभावात् ॥ १ ॥ <pratika>त्वदभिसरणेति ।
</pratika>
हे माधव, सा राधा त्वदभिसरणे रभसेन वलन्ती संभजमाना । अर्थादभिसारवेगम् ।

कियन्ति पदानि चलन्ती सती पतति । तस्मात्स्थानादधिकं गन्तुमशक्तेत्यर्थः ॥ २ ॥

<pratika>
विहितेति । </pratika>सा परं तव रतिकलया रतिविज्ञानेन रतिशिल्पेन परं जीवति नान्य

उपाय:यः । किंभूता सा । कृतपाण्डुरमृणालाङ्कुरकटका ॥ ३ ॥ <pratika>मुहुरिति ।</pratika> सा

मुहुर्वारंवारमवलोकिता मण्डनानां लीला विलासो यया सा । इमानि तानि मण्ड-

नानि तत्सुरतसमारम्भयोग्यानीति मुहुर्मुहुः कानिचित्परिदधाति । किंभूता सती ।

अहं मधुरिपुरिति भावनशीला ध्यानस्वभावा । एतेन स्त्रीयोग्यानि मण्डनानि मुक्त्वा

त्वद्विरद्ददुःखापनोदाय पुरुषायितसुरतयोग्यानि मण्डनानि दधाना स्वयमेव त्वद्रूपीभूय

कालमतिवाहयतीत्यर्थः । अथवा त्वदलाभात्स्वयमेव त्वं च राधा च भूत्वा । '"स्त्रीणां

प्रियालोकफलो हि वेशः'" इति त्वच्चेतोहराणि मण्डनानि आदधाना वर्तते ॥ ४ ॥
 
-
 

 
न्तोऽन्यपर्यायः सर्वनामगणे पठितः । तदुक्तं सर्वादिगणव्याख्याने प्रक्रियाप्रसादे '"त्वच्छ-

ब्दोऽन्यवाची द्विःपठितः स्वरभेद एक उदात्तोऽनुदात्त: 'तः" इति काशिकाकारमतम् ।

ग्रन्थान्तरमते तु '"एकोऽकारान्तोऽन्यस्तकारान्तो <error>द्वावण्प्यानुदात्तौ'"</error><fix>द्वावप्यनुदात्तौ"</fix> इति । '"भोगावासो
चा

वा
सगृहम्'" इति हारावली ॥ १ ॥ ननु किमिति सीदति, अत्रैव किमिति नायातीत्यत

आह -- <pratika>त्वदिति ।</pratika> तवाभिसारे यो रभस उत्साहस्तेन चलन्ती प्रसाधनादौ व्याप्रियमाणा

कियन्ति पदानि कतिपयानि पदानि चलन्ती त्वदन्तिकमागन्तुं गच्छन्ती पतति स्खलति ।

तथा च त्वद्विरहसंतप्ता त्वदन्तिकमागन्तुमसमर्था ॥ २ ॥ नन्वेवं चेदशक्ता तहिं कथं

जीवतीत्यत आह -- <pratika>विहितेति ।</pratika> सा परं केवलं तव रतिकलया पूर्वानुभूतायास्तव

रतेराकलनेन जीवति । कीदृशी । विहितानि विशदै तर्निर्मलैर्विबिसैर्मृणालैः किसलयैर्नवपल्लवैश्च

लयानि कङ्कणानि यस्याः सा । '"कलनाकालयो:योः कला'" इति विश्वः । '"वलयं

कङ्कणेऽपि च'" इत्यपि ॥ ३ ॥ पुनः कीदृशी । <pratika>मुहुरिति ।</pratika> मुहुर्वारंवारमवलोकिता वीक्षिता

मण्डनैर्मुकुटकुण्डलवनमालाभिलींर्लीला तवानुकृतिर्यया सा । पुनः कीदृशी । अहं मधु-

रिपुरिति भावनशीला चिन्तनपरा । रहसि तव वेशं विधायानुरागातिशयेना हमेव
 

 
[^
.] "चलन्ती" इति पाठः । [^ '.] "मण्डललीला'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri