This page has not been fully proofread.

९०
 
गीतगोविन्दकाव्यम्
 
[ सर्गः ६
 
त्वदभिसरणरभसेन वैलन्ती ।
 
पतति पदानि कियन्ति चलन्ती ॥ नाथ हरे० ॥ २ ॥
विहितविशद बिस किसलयवलया ।
 
जीवति परमिह तव रतिकलया ॥ नाथ हरे० ॥ ३ ॥
मुहुरवलोकितमण्डनलीला ।
 
मधुरिपुरहमिति भावनशीला ॥ नाथ हरे० ॥ ४ ॥
 
तस्या राधाया एव अधरमधूनि पिबन्तम् । एवमवस्थमेवेत्यर्थः । तदधरसंसर्गान्मधु-
राणि मधूनि यान्यक्षराणि तानि शृण्वन्तम् । अत्यादरं श्रवणं पानमुच्यते । तस्या-
दरश्रवणेन तस्यालीकत्वं द्योत्यते । प्रतिवञ्चनाभावात् ॥ १ ॥ त्वदभिसरणेति ।
हे माधव, सा राधा वदभिसरणे रभसेन वलन्ती संभजमाना । अर्थादभिसारवेगम् ।
कियन्ति पदानि चलन्ती सती पतति । तस्मात्स्थानादधिकं गन्तुमशक्तेत्यर्थः ॥ २ ॥
विहितेति । सा परं तव रतिकलया रतिविज्ञानेन रतिशिल्पेन परं जीवति नान्य
उपाय: । किंभूता सा । कृतपाण्डुरमृणालाङ्करकटका ॥ ३ ॥ मुहुरिति । सा
मुहुर्वारंवारमवलोकिता मण्डनानां लीला विलासो यया सा । इमानि तानि मण्ड-
नानि तत्सुरतसमारम्भयोग्यानीति मुहुर्मुहुः कानिचित्परिदधाति । किंभूता सती ।
अहं मधुरिपुरिति भावनशीला ध्यानस्वभावा । एतेन स्त्रीयोग्यानि मण्डनानि मुक्त्वा
त्वद्विरद्ददुःखापनोदाय पुरुषायितसुरतयोग्यानि मण्डनानि दधाना स्वयमेव त्वद्रूपीभूय
कालमतिवाहयतीत्यर्थः । अथवा त्वदलाभात्स्वयमेव त्वं च राधा च भूत्वा । 'स्त्रीणां
प्रियालोकफलो हि वेशः' इति त्वचेतोहराणि मण्डनानि आदधाना वर्तते ॥ ४ ॥
 
-
 
न्तोऽन्यपर्यायः सर्वनामगणे पठितः । तदुक्तं सर्वादिगणव्याख्याने प्रक्रियाप्रसादे 'त्वच्छ-
ब्दोऽन्यवाची द्विःपठितः खरभेद एक उदात्तोऽनुदात्त: ' इति काशिकाकारमतम् ।
ग्रन्थान्तरमते तु 'एकोऽकारान्तोऽन्यस्तकारान्तो द्वावण्यानुदात्तौ' इति । 'भोगावासो
चासगृहम्' इति हारावली ॥ १ ॥ ननु किमिति सीदति, अत्रैव किमिति नायातीत्यत
आह — त्वदिति । तवाभिसारे यो रभस उत्साहस्तेन चलन्ती प्रसाधनादौ व्याप्रियमाणा
कियन्ति पदानि कतिपयानि पदानि चलन्ती त्वदन्तिकमागन्तुं गच्छन्ती पतति स्खलति ।
तथा च त्वद्विरहसंतप्ता त्वदन्तिकमागन्तुमसमर्था ॥ २ ॥ नन्वेवं चेदशक्ता तहिं कथं
जीवतीत्यत आह—विहितेति । सा परं केवलं तव रतिकलया पूर्वानुभूतायास्तव
रतेराकलनेन जीवति । कीदृशी । विहितानि विशदै निर्मलैर्विसैर्मृणालैः किसलयैर्नवपल्लवैश्च
चलयानि कङ्कणानि यस्याः सा । 'कलनाकालयो: कला' इति विश्वः । 'वलयं
कङ्कणेऽपि च' इत्यपि ॥ ३ ॥ पुनः कीदृशी । मुहुरिति । मुहुर्वारंवारमवलोकिता वीक्षिता
मण्डनैर्मुकुटकुण्डलवनमालाभिलींला तवानुकृतिर्यया सा । पुनः कीदृशी । अहं मधु-
रिपुरिति भावनशीला चिन्तनपरा । रहसि तव वेशं विधायानुरागातिशयेना हमेव
 
१ चलन्ती इति पाठः । २ 'मण्डललीला' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri