2022-11-01 05:31:26 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
<bold>षष्ठः सर्गः ६</bold>
धन्यवैकुण्ठकुङ्कुमः ।
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ १ ॥
<bold>गो[^१]ण्डकरीरागेण रूपकतालेन गीयते । प्र० ॥ १२ ॥</bold>
पश्यति दिशि दिशि रहसि भवन्तम् ।
तदध[^२]रमधुरमधूनि पिबन्तम् ॥
नाथ हरे सीदति राधाऽऽवासगृहे ॥ ध्रुवम् ॥ १ ॥
इदानीं कुत्रचित्कुञ्जे राधां संस्थाप्य दूती तच्चेष्टितं कृष्णे विनिवेदयति -- <pratika>अथ
तामिति ।</pratika>अथानन्तरं राधासखी तच्चरितं राधायाश्चरितं गोविन्दे निवेदयामास ।
किंभूते गोविन्दे । मनसिजमन्दे । किं कृत्वा । तां राधां गन्तुमशक्तां ज्ञात्वा । शरीरान्त-
र्वर्तिन्याः शक्तेर्दर्शनाविषयत्वेन दृष्ट्वेति दृशिरत्र ज्ञानार्थः । किंभूताम् । तां चिरं
गोविन्देऽनुरक्ताम् । अथवा लतागृहे इति तस्याधिकरणत्वेन व्याख्येयम् । अत्रैव
लतागृहे सङ्केतस्य कृतत्वात् । आर्याछन्दः ॥ १ ॥ पूर्वं ध्रुवपदं व्याक्रियते । <pratika>नाथ
हरे इति ।</pratika> हे नाथ, आवासगृहे सङ्केतस्थाने राधा सीदती अवसादं प्राप्नोति ॥
अथ पदानि ॥ <pratika>पश्यतीति ।</pratika> सा राधा रहसि रहोनिमित्तान्तरनिमित्तम् एकान्तनि-
मित्तं वा दिशि दिशि भवन्तं पश्यति । सर्वा दिशस्तस्यास्त्वन्मया एव जाता इत्यर्थः ।
त्वदद्वैतमभवदित्यर्थः । "सङ्गमविरहविवेके वरमिव विरहो न सङ्गमस्तस्याः । सङ्गे सापि
तथैका त्रिभुवनमपि तन्मयं विरहे ॥" किं कुर्वन्तम् । तदधरमधुरमधूनि पिबन्तम् ।
<pratika>अथेति ।</pratika> अथानन्तरं सखी तच्चरितं गोविन्दे गोविन्दं विषयीकृत्य प्राहोवाच ।
कीदृशे गोविन्दे । मनसिजेन कामेन मन्दे मन्दगतौ । किं कृत्वा । तां राधां लतागृहे
क्वचिल्लतामण्डपे चिरं बहुकालं व्याप्यानुरक्तां दृष्ट्वास्मिन्नेव लतागृहे केलिः कर्तव्येति
चिरकालीनं तस्यानुरागं ज्ञात्वेत्यर्थः । पुनः कीदृशम् । गन्तुमशक्तां कृष्णान्तिकं
प्रयातुमसमर्थाम्। "मन्दः खले मन्दगते मूर्खे स्वैरेऽल्परोगिणोः" इति विश्वः ॥ १ ॥ भाषया
यदुवाच तद्गीतेन कथयति -- <pratika>पश्यतीति ।</pratika> गीतस्यास्य गुणकरी रागो रूपकतालः ।
गीतार्थस्तु -- हे नाथ हे हरे, राधा वासगृहे त्वद्भवतः सकाशात्सीदत्यवसन्ना भवति ।
विशेषतस्त्वमेव तस्या अवसादकारणमिति भावः । रहस्येकान्ते दिशि दिशि भवन्तं
पश्यति । कीदृशं भवन्तम् । त्वदधरमधुरमधूनि त्वदीयाधररूपाणि मधुरमधूनि
पिबन्तमास्वादयन्तम् । भावनया स्वकीयाधरपानं कुर्वन्तं त्वामेव दिशि दिशि
पश्यतीति भावः । यद्वा त्वछब्दस्त्वन्यवाचकः । तथा च त्वदधरमधुरमधूनि त्वत्तोऽन्यस्या
नायिकाया अधरमधुरमधूनि पिबन्तं दिशि दिशि पश्यतीति भावः । त्वच्छब्दस्तकारा-
[^१.] "गुणकरि" इति पाठः । [^२.] "त्वदधर" इति पाठः ।