This page has been fully proofread once and needs a second look.

सर्गः ६ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ८९
 
षष्टःठः सर्गः ६

धन्यवैकुण्ठकुङ्कुमः ।
 
4
 

 
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।

तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ १ ॥

 
<bold>
गो[^१]ण्डकरीरागेण रूपकतालेन गीयते । प्र० ॥ १२ ॥
</bold>
 
पश्यति दिशि दिशि रहसि भवन्तम् ।

तद
[^२]रमधुरमधूनि पिबन्तम् ॥
 

नाथ हरे सीदति राधाऽऽवासगृहे ॥ ध्रुवम् ॥ १ ॥
 

 
इदानीं कुत्रचित्कुञ्जे राधां संस्थाप्य दूती तच्चेष्टितं कृष्णे विनिवेदयति - - <pratika>अथ

तामिति । </pratika>अथानन्तरं राधासखी तच्चरितं राधायाश्चरितं गोविन्दे निवेदयामास ।

किंभूते गोविन्दे । मनसिजमन्दे । किं कृत्वा । तां राधां गन्तुमशक्तां ज्ञात्वा । शरीरान्त-

र्
वर्तिन्याः शक्तेर्दर्शनाविषयत्वेन दृष्ट्वेति दृशिरत्र ज्ञानार्थः । किंभूताम् । तां चिरं

गोविन्देऽनुरक्ताम् । अथवा लतागृहे इति तस्याधिकरणत्वेन व्याख्येयम् । अत्रैव

लतागृहे सङ्केतस्य कृतखात्वात् । आर्याछन्दः ॥ १ ॥ पूर्वं ध्रुवपदं व्याक्रियते । <pratika>नाथ

हरे इति ।</pratika> हे नाथ, आवासगृहे सङ्केतस्थाने राधा सीदती अवसादं प्राप्नोति ॥

अथ पदानि ॥ <pratika>पश्यतीति ।</pratika> सा राधा रहसि रहोनिमित्तान्तरनिमित्तम् एकान्त नि-

मित्तं वा दिशि दिशि भवन्तं पश्यति । सर्वा दिशस्तस्यास्त्वन्मया एव जाता इत्यर्थः ।

त्वदद्वैतमभवदित्यर्थः । '"सङ्गमविरहविवेके वरमिव विरहो न सङ्गमस्तस्याः । सङ्गे सापि

तथैका त्रिभुवनमपि तन्मयं विरहे ॥'" किं कुर्वन्तम् । तदधरमधुरमधूनि पिबन्तम् ।
 

 
<pratika>
अथेति ।</pratika> अथानन्तरं सखी तच्चरितं गोविन्दे गोविन्दं विषयीकृत्य प्राहोवाच ।

कीदृशे गोविन्दे । मनसिजेन कामेन मन्दे मन्दगतौ । किं कृत्वा । तां राधां लतागृहे

क्वचिल्लतामण्डपे चिरं बहुकालं व्याप्यानुरक्तां दृष्ट्वास्मिन्नेव लतागृहे केलिः कर्तव्येति

चिरकालीनं तस्यानुरागं ज्ञात्वेत्यर्थः । पुनः कीदृशम् । गन्तुमशक्तां कृष्णान्तिकं

प्रयातुमसमर्थाम्। '"मन्दः खले मन्दगते मूर्खे खैस्वैरेऽल्परोगिणोः'" इति विश्वः ॥ १ ॥ भाषया

यदुवाच तद्गीतेन कथयति -- <pratika>पश्यतीति ।</pratika> गीतस्यास्य गुणकरी रागो रूपकतालः ।

गीतार्थस्तु -- हे नाथ हे हरे, राधा वासगृहे त्वद्भवतः सकाशात्सीदत्यवसन्ना भवति ।

विशेषतस्त्वमेव तस्या अवसादकारणमिति भावः । रहस्येकान्ते दिशि दिशि भवन्तं

पश्यति । कीदृशं भवन्तम् । त्वदधरमधुरमधूनि त्वदीयाधररूपाणि मधुरमधूनि

पिबन्तमास्वादयन्तम् । भावनया स्वकीयाधरपानं कुर्वन्तं त्वामेव दिशि दिशि

पश्यतीति भावः । यद्वा त्वछब्दस्त्वन्यवाचकः । तथा च त्वदधरमधुरमधूनि त्वत्तोऽन्यस्या

नायिकाया अधरमधुरमधूनि पिबन्तं दिशि दिशि पश्यतीति भावः । त्वच्छब्दस्तकारा-

 
[^
'.] "गुणकरि'" इति पाठः । [^ '.] "त्वदधर'" इति पाठः ।
 
१० गीत•
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri