This page has not been fully proofread.

सर्गः ६ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ८९
 
षष्टः सर्गः ६
धन्यवैकुण्ठकुङ्कुमः ।
 
4
 
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ १ ॥
गोण्डकरीरागेण रूपकतालेन गीयते । प्र० ॥ १२ ॥
पश्यति दिशि दिशि रहसि भवन्तम् ।
तधरमधुरमधूनि पिबन्तम् ॥
 
नाथ हरे सीदति राधाऽऽवासगृहे ॥ ध्रुवम् ॥ १ ॥
 
इदानीं कुत्रचित्कुञ्जे राधां संस्थाप्य दूती तच्चेष्टितं कृष्णे विनिवेदयति - अथ
तामिति । अथानन्तरं राधासखी तच्चरितं राधायाश्चरितं गोविन्दे निवेदयामास ।
किंभूते गोविन्दे। मनसिजमन्दे । किं कृत्वा । तां राधां गन्तुमशक्तां ज्ञात्वा । शरीरान्त-
वर्तिन्याः शक्तेदर्शनाविषयत्वेन दृष्ट्वेति दृशिरत्र ज्ञानार्थः । किंभूताम् । तां चिरं
गोविन्देऽनुरक्ताम् । अथवा लतागृहे इति तस्याधिकरणत्वेन व्याख्येयम् । अत्रैव
लतागृहे सङ्केतस्य कृतखात् । आर्याछन्दः ॥ १ ॥ पूर्वं ध्रुवपदं व्याक्रियते । नाथ
हरे इति । हे नाथ, आवासगृहे सङ्केतस्थाने राधा सीदती अवसादं प्राप्नोति ॥
अथ पदानि ॥ पश्यतीति । सा राधा रहसि रहोनिमित्तान्तरनिमित्तम् एकान्त नि-
मित्तं वा दिशि दिशि भवन्तं पश्यति । सर्वा दिशस्तस्यास्त्वन्मया एव जाता इत्यर्थः ।
त्वदद्वैतमभवदित्यर्थः । 'सङ्गमविरहविवेके वरमिव विरहो न सङ्गमस्तस्याः । सङ्गे सापि
तथैका त्रिभुवनमपि तन्मयं विरहे ॥' किं कुर्वन्तम् । तदधरमधुरमधूनि पिबन्तम् ।
 
अथेति । अथानन्तरं सखी तच्चरितं गोविन्दे गोविन्दं विषयीकृत्य प्राहोवाच ।
कीदृशे गोविन्दे । मनसिजेन कामेन मन्दे मन्दगतौ । किं कृत्वा । तां राधां लतागृहे
क्वचिल्लतामण्डपे चिरं बहुकालं व्याप्यानुरक्तां दृष्ट्वास्मिन्नेव लतागृहे केलिः कर्तव्येति
चिरकालीनं तस्यानुरागं ज्ञात्वेत्यर्थः । पुनः कीदृशम् । गन्तुमशक्तां कृष्णान्तिकं
प्रयातुमसमर्थाम्। 'मन्दः खले मन्दगते मूर्खे खैरेऽल्परोगिणोः' इति विश्वः ॥ १ ॥ भाषया
यदुवाच तद्गीतेन कथयति – पश्यतीति । गीतस्यास्य गुणकरी रागो रूपकतालः ।
गीतार्थस्तु — हे नाथ हे हरे, राधा वासगृहे त्वद्भवतः सकाशात्सीदत्यवसन्ना भवति ।
विशेषतस्त्वमेव तस्या अवसादकारणमिति भावः । रहस्येकान्ते दिशि दिशि भवन्तं
पश्यति । कीदृशं भवन्तम् । त्वदधरमधुरमधूनि त्वदीयाधररूपाणि मधुरमधूनि
पिबन्तमास्वादयन्तम् । भावनया स्वकीयाधरपानं कुर्वन्तं त्वामेव दिशि दिशि
पश्यतीति भावः । यद्वा त्वछब्दस्त्वन्यवाचकः । तथा च त्वदधरमधुरमधूनि त्वत्तोऽन्यस्या
नायिकाय अधरमधुरमधूनि पिबन्तं दिशि दिशि पश्यतीति भावः । त्वच्छब्दस्तकारा-
१ 'गुणकरि' इति पाठः । २ 'त्वदधर' इति पाठः ।
 
१० गीत•
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri