This page has not been fully proofread.

८८
 
गीतगोविन्दकाव्यम्
 
स्वच्छन्दं
 
व्रजसुन्दरीजनमनस्तोषप्रदोषोदयः ।
 
कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः ॥ ७ ॥
इति श्रीगीतगोविन्देऽभिसारिकावर्णने साकाङ्क्षपुण्डरीकाक्षो
नाम पञ्चमः सर्गः ॥ ५ ॥
 
[ सर्ग: ५
 
-
 
किरीटदेशादीनां नेपथ्योचितं भूषणोचितं नीलरत्नमिव । पुनः किंभूतो देवकीनन्दनः ।
अवन्या भूमेर्भारायावतारो जन्म येषां शिशुपालदन्तवक्त्रादीनां तेषामन्तक इवा-
न्तकः । यमसदृशोऽभूदित्यर्थः । पुनः किंभूतो देवकीनन्दनः । व्रजे सुन्दर्यः ब्रज-
सुन्दर्य: । व्रजसुन्दरीणां जनस्तस्य मनस्तोषप्रदोषोदय इव । पुनः किंभूतो हरिः ।
कंसध्वंसनधूमकेतुः कंसस्य ध्वंसनं विनाशस्तत्र धूमकेतुरिव विनाशसूचकस्तारा-
विशेष इव । जातमात्र एव कंसविनाशं सूचितवा नित्यर्थः । अत्र कंसध्वंसने गोपीनां पर-
मेश्वरादन्यत्र गतिविनाशे धूमकेतुर्वृहद्भानुरिव प्रकाशकत्वात् । प्रकाशे हि स्वेच्छावि-
हारभङ्गो जायते । अथवा कसेः शातनार्थत्वाद्राधायाः कामेन यच्छातनं तत्र
धूमकेतुरिव । स्वच्छन्दप्रदोषोदय इति यदा यदा प्रदोषोदयं वाञ्छति तदा तदा स
एवेति । अथवा प्रगतो दोषोदयो यस्मात्तेन सह क्रीडतीनां दोष एव नास्तीति ।
अथ च राधामुग्धमुखारविन्दे मधु माधुर्य पाति रक्षतीति । चिरं विप्रलम्भे हि
प्रियदर्शनान्माधुर्यमुपपद्यत एवेति पदानामौचिती । अत्र श्लेषलुप्तोपमापरिकरवर्णोप-
मालंकाराः । शार्दूलविक्रीडितं वृत्तम् । पाञ्चाली रीतिः । आरभटी वृत्तिः । गीत्यादि
पूर्वोक्तमेव ॥ ७ ॥
 
प्रत्याहवं पञ्चतयारिसैन्यं यो योजयत्याहवकुम्भकर्णः ।
 
स कुम्भकर्णो रसिकप्रियायाः समस्करोत्पञ्चतयात्र सर्गम् ॥
इति कुम्भकर्णेन विरचितायां गीतगोविन्दटीकायां
रसिकप्रियायां सर्गोऽगात्पञ्चमः ॥
 
एकान्तस्थलं प्राप्ताम् । पुनः कीदृशीम् । अनङ्गतरङ्गिभिर नङ्गस्य कामस्य यस्तरङ्गः पुनः-
पुनरुद्बोधस्तद्युक्तैरङ्गैरुपलक्षिताम् । अङ्गैरित्यत्र विशेषणे तृतीया ॥ ६ ॥ ( अत्र राधामुग्धे.
त्यादिश्लोकस्य टीका नोपलब्धादर्शपुस्तके । ) ॥ ७ ॥
 
नो भूपाः कति सन्ति तेषु विरला विद्वगुणग्राहिण
स्तन्मध्येऽपि नवप्रवन्धगणना निर्बन्धिनो दुर्लभाः ।
द्वित्रास्तेष्वपि कैटभद्विडुदयत्प्रेमानुबन्धाः क्षिता-
येतेषां धुरमेक एव वहति श्रीशालिनाथप्रभुः ॥
 
इति श्रीमहामहोपाध्याय श्रीशंकर मिश्रविरचितायां श्रीशालिनाथकारितामां
गीतगोविन्दटीकायां रसमञ्जर्याख्यायां पञ्चमः सर्गः ॥ ५ ॥
 
१ 'तोषप्रदोषश्चिरम्' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri