This page has been fully proofread once and needs a second look.


 
स्वयं निर्माय विद्वद्भ्यो ददावाज्ञां नृपः पुनः ।

अद्यारभ्य ममैतद्वै गीतगोविन्दनामकम् ॥

 
पठ्यतां गीयतां सर्वैरन्यथा दण्डभाग्भवेत् ।

इत्याज्ञाप्य द्वितीयं तद्गीतगोविन्दनामकम् ॥

 
प्रख्यापयामास नृपः काव्यं स्वकृतमेव तु ।

जयदेवकृतं कोऽपि न जगौ नृपशासनात् ॥

 
अथैकस्मिन्दिने राजा द्रष्टुं श्रीपुरुषोत्तमम् ।

आगतस्तत्र देवाग्रे जयदेवं ददर्श ह ॥

 
नृत्यन्तं स्वकृतं काव्यं गायन्तं नृप आह तम् ।

अहो मदीयं काव्यं त्वं कुतो न स्वीकरोषि भोः ॥

 
श्रुत्वैवं जयदेवस्तु राजानं प्राह भीतवत् ।

स्वीकृतं भवदीयं तु काव्यं राजन्न संशयः ॥

 
परंतु मत्कृतेनायं यथा तुष्यति केशवः ।

न तथा त्वत्कृतेनेति परीक्षा क्रियतामिह ॥

 
एतच्छ्रुत्वा तु वचनं जयदेवकृतं स्वकम् ।

उभयं स्थापयामास जगन्नाथाग्रतः स्वयम् ॥

 
उवाच देवं भोः स्वामिन्किकिं तवातिप्रियं द्वयोः ।

तत्स्थापयोपरिष्टात्तु यामः सर्वे बहिर्गृहात् ॥

 
इत्युक्त्वा ते बहिर्याता द्वारे दत्त्वा कपाटकम् ।

राजा च जयदेवश्च ये चान्ये तत्र वै द्विजाः ॥

 
अग्रे स्थित्वा क्षणं तत्रोद्घाटितं स्वयमेव हि ।

कपाटं मन्दिरे याताः सर्वे राजपुरःसराः ॥

 
ददृशुस्त्र ते सर्वे जयदेवेन निर्मितम् ।

उपरिष्टात्स्थापितं तु तदधो राजनिर्मितम् ॥

 
दृष्ट्वा तत्परमाश्चर्यं राजा शोकसमन्वितः ।

तत्याजान्नं च पानीयं रात्रौ तत्रैव तस्थिवात् ॥

 
नृपः स्वप्ने ददर्ग्राशाथ पुरुषोत्तमरूपवृधृक् ।

कश्चित्समागतो ब्रूते किमर्थं शोचसे वृथा ॥

 
गीतगोविन्दसदृशं नान्यत्काव्यं प्रियं मम ।

त्वत्कृतेनापि तुष्यामि भक्तस्त्वं नात्र संशयः ॥

 
परंतु गीतगोविन्दं स्वीकरोतु भवानपि ।

प्रख्यापयतु लोकेऽस्मिन्मम प्रीतिविवर्धनम् ॥

 
एवं पश्यन्नृपः स्वप्ने जहौ निद्रां मुदान्वितः ।

कृष्णं ननाम मनसा खास्वापराधं क्षमापयन् ॥

 
तदारभ्य नृपो जातो जयदेवेऽतिभक्तिमान् ।

स्वयं तु गीतगोविन्दं प्रपठन्भक्तिपूर्वकम् ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri