2022-10-18 04:13:44 by ambuda-bot
This page has not been fully proofread.
९
स्वयं निर्माय विद्वद्भ्यो ददावाज्ञां नृपः पुनः ।
अद्यारभ्य ममैतद्वै गीतगोविन्दनामकम् ॥
पठ्यतां गीयतां सर्वैरन्यथा दण्डभाग्भवेत् ।
इत्याज्ञाप्य द्वितीयं तद्गीतगोविन्दनामकम् ॥
प्रख्यापयामास नृपः काव्यं स्वकृतमेव तु ।
जयदेवकृतं कोऽपि न जगौ नृपशासनात् ॥
अथैकस्मिन्दिने राजा द्रष्टुं श्रीपुरुषोत्तमम् ।
आगतस्तत्र देवाग्रे जयदेवं ददर्श ह ॥
नृत्यन्तं स्वकृतं काव्यं गायन्तं नृप आह तम् ।
अहो मदीयं काव्यं त्वं कुतो न स्वीकरोषि भोः ॥
श्रुत्वैवं जयदेवस्तु राजानं प्राह भीतवत् ।
स्वीकृतं भवदीयं तु काव्यं राजन्न संशयः ॥
परंतु मत्कृतेनायं यथा तुष्यति केशवः ।
न तथा त्वत्कृतेनेति परीक्षा क्रियतामिह ॥
एतच्छ्रुत्वा तु वचनं जयदेवकृतं स्वकम् ।
उभयं स्थापयामास जगन्नाथाग्रतः स्वयम् ॥
उवाच देवं भोः स्वामिन्कि तवातिप्रियं द्वयोः ।
तत्स्थापयोपरिष्टात्तु यामः सर्वे बहिर्गृहात् ॥
इत्युक्त्वा ते बहिर्याता द्वारे दत्त्वा कपाटकम् ।
राजा च जयदेवश्च ये चान्ये तत्र वै द्विजाः ॥
अग्रे स्थित्वा क्षणं तत्रोद्घाटितं स्वयमेव हि ।
कपाटं मन्दिरे याताः सर्वे राजपुरःसराः ॥
ददृशुस्वत्र ते सर्वे जयदेवेन निर्मितम् ।
उपरिष्टात्स्थापितं तु तदधो राजनिर्मितम् ॥
दृष्ट्वा तत्परमाश्चर्यं राजा शोकसमन्वितः ।
तत्याजानं च पानीयं रात्रौ तत्रैव तस्थिवात् ॥
नृपः स्वप्ने ददर्ग्राथ पुरुषोत्तमरूपवृक् ।
कश्चित्समागतो ब्रूते किमर्थं शोचसे वृथा ॥
गीतगोविन्दसदृशं नान्यत्काव्यं प्रियं मम ।
त्वत्कृतेनापि तुष्यामि भक्तस्त्वं नात्र संशयः ॥
परंतु गीतगोविन्दं स्वीकरोतु भवानपि ।
प्रख्यापयतु लोकेऽस्मिन्मम प्रीतिविवर्धनम् ॥
एवं पश्यन्नृपः स्वप्ने जहौ निद्रां मुदान्वितः ।
कृष्णं ननाम मनसा खापराधं क्षमापयन् ॥
तदारभ्य नृपो जातो जयदेवेऽतिभक्तिमान् ।
स्वयं तु गीतगोविन्दं प्रपठन्भक्तिपूर्वकम् ॥
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri