This page has been fully proofread once and needs a second look.

सर्गः ५] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ८७
 
सभयचकितं विन्यस्यन्तीं दृ[^१]शं तिमिरे पथि
 
!!

प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।

कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः
 

सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ ६ ॥

 
राधामुग्धमुखारविन्दमधुपखैस्त्रैलोक्यमौलिस्थली-

नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः ।
 

 
इदानीं त्वत्प्राप्तिरेव श्रीकृष्णस्य सर्वस्वमिति दर्शयन्त्याह -- <pratika>सभयेति । </pratika>हे सुमुखि

राधे, स सुभगः श्रीकृष्णस्त्वां पश्यञ्जानन्कृतार्थतामुपैतु कृतकृत्यो भवतु । अत्र दृशिर्ज्ञीञाने

वर्तते । किंभूतां त्वाम् । तिमिरे तिमिरवति पथि मार्गे सभयचकितं यथा स्यात्तथा दृशं

विन्यस्यन्तीम् । सभयचकित मिति भयविस्मयस्थायिभावौ भयानकाद्भुतावुक्तौ भवतः ।

निबिडे हि तमसि भयं भवत्येव । तादृशी च भावितभयानके पथि संकेतस्थानं या-

मीति विस्मयः । एवं प्रियस्यापि प्रियतमेन समं समागमो भविष्यति न वेति शङ्काव-

काशोऽपि । किंभूतां त्वाम् । प्रतितरु तरुं तरुं प्रति स्वननितम्बभारभरालसतया मु.
-
हुर्वारंवारं स्थित्वा कोऽपि मां मा द्राक्षीदिति मन्दं पदानि वितन्वतीम् । प्रतितरु

अत्र वा स मे प्रियो भविष्यतीत्याशङ्कया मुहुः स्थित्वेति योजनीयम् । किंभूताम् ।

कथमपि केनचित्प्रकारेण पूर्वोक्तसखीवचननील निचोलादिसाधनसंपत्त्याभिमानपरि-

त्यागेन मय्यनुकम्पया वा रहः प्राप्ताम् । पुनः किंभूताम् । अनङ्गतरङ्गिभिः कामकल्लोल-

कलैरङ्गै रुपलक्षिताम् । अत्र तमसो नैबिड्याद्दर्शनायोग्यत्वेऽङ्ग स्पर्शनादेव ज्ञातेति कृत्वा

दृशेर्ज्ञानार्थीथो व्याख्यात इत्याकूतम् । अत्र हरिणी वृत्तम् । अतिशयोक्तिरलंकारः

॥ ६ ॥ इदानीं संभोगाख्यं शृङ्गारमवतारयंस्तदापात निकाद्वारेण सर्गान्ताशिषमाह -
-
<pratika>
राधामुग्धेति । </pratika>देवकीनन्दनः श्रीकृष्णस्त्वामवतु रक्षतु । किंभूतो देवकीनन्दनः ।

राधामुग्धमुखारविन्दमधुपः । मुखमरविन्दमिव मुखारविन्दं, मुग्धं च तत्

मुखारविन्दं च मुग्धमुखारविन्दम् । राधाया मुग्धमुखारविन्दं तस्मिन्मधुप इव

मधुपः । अनेन भावी संभोगो द्योतितः । पुनः किंभूतो हरिः । त्रैलोक्यमौलिस्थलीनां
 

 
भावः । '"दम्पती जम्पती जायापती भार्यापती च तौ'" इत्यमरः ॥ ५ ॥ पुनरपि

त्वरयितुं कृष्णोत्कण्ठामाह - - <pratika>सभयेति ।</pratika> हे सुमुखि, सुभगः शोभनः श्रीकृष्णस्त्वां

पश्यन्कृतार्थतामुपैतु प्राप्नोतु । कीदृशीम् । तिमिरेऽन्धकारे सति पथि वर्त्मनि तदा भयचकितं

भयसहितं यथा स्यादेवं दृशं नेत्रं विन्यस्यन्तीमर्पयन्तीम् । पुनः कीदृशीं त्वाम् ।

प्रतितरु तरुं तरुं प्रति मुहुः पुनः पुनः स्थित्वा मन्दं यथा स्यादेवं पदानि वितन्वतीम् ।

गाडाढान्धकारे तमालविटपेषु को वेदात्र कृष्णः स्थितो भविष्यतीत्याशयेन वायमेव कृष्ण

इति भ्रमात्तदन्तिकमुपेत्य पश्चाद्विशेषदर्शने सति तत उत्थाय पुनरग्रे तथेत्येवं प्रतितरु

स्थित्वा गच्छन्तीमिति भावः । पुनः कीदृशीम् । कथमपि शनैः शनैश्चरणक्षेपादिना रह
 

 
[^
'.] "दृशौ '" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri