2022-10-18 04:14:09 by ambuda-bot
This page has not been fully proofread.
सर्गः ५] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ८७
सभयचकितं विन्यस्यन्तीं दृशं तिमिरे पथि
!! प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः
सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ ६ ॥
राधामुग्धमुखारविन्दमधुपखैलोक्यमौलिस्थली-
नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः ।
इदानीं त्वत्प्राप्तिरेव श्रीकृष्णस्य सर्वस्वमिति दर्शयन्त्याह– सभयेति । हे सुमुखि
राधे, स सुभगः श्रीकृष्णस्त्वां पश्यञ्जानन्कृतार्थतामुपैतु कृतकृत्यो भवतु । अत्र दृशिज्ञीने
वर्तते । किंभूतां त्वाम् । तिमिरे तिमिरवति पथि मार्गे सभयचकितं यथा स्यात्तथा दृशं
विन्यस्यन्तीम् । सभयचकित मिति भयविस्मयस्थायिभावौ भयानकाद्भुतावुक्तौ भवतः ।
निबिडे हि तमसि भयं भवत्येव । तादृशी च भावितभयानके पथि संकेतस्थानं या-
मीति विस्मयः । एवं प्रियस्यापि प्रियतमेन समं समागमो भविष्यति न वेति शङ्काव-
काशोऽपि । किंभूतां त्वाम् । प्रतितरु तरुं तरुं प्रति स्वननितम्बभारभरालसतया मु.
हुर्वारंवारं स्थित्वा कोऽपि मां मा द्राक्षीदिति मन्दं पदानि वितन्वतीम् । प्रतितरु
अत्र वा स मे प्रियो भविष्यतीत्याशङ्कया मुहुः स्थित्वेति योजनीयम् । किंभूताम् ।
कथमपि केनचित्प्रकारेण पूर्वोक्तसखीवचननील निचोलादिसाधनसंपत्त्याभिमानपरि-
त्यागेन मय्यनुकम्पया वा रहः प्राप्ताम् । पुनः किंभूताम् । अनङ्गतरङ्गिभिः कामकल्लोल-
कलैरङ्गै रुपलक्षिताम् । अत्र तमसो नैबिड्याद्दर्शनायोग्यत्वेऽङ्ग स्पर्शनादेव ज्ञातेति कृत्वा
दृशेर्ज्ञानार्थी व्याख्यात इत्याकूतम् । अत्र हरिणी वृत्तम् । अतिशयोक्तिरलंकारः
॥ ६ ॥ इदानीं संभोगाख्यं शृङ्गारमवतारयंस्तदापात निकाद्वारेण सर्गान्ताशिषमाह -
राधामुग्धेति । देवकीनन्दनः श्रीकृष्णस्त्वामवतु रक्षतु । किंभूतो देवकीनन्दनः ।
राधामुग्धमुखारविन्दमधुपः । मुखमरविन्दमिव मुखारविन्दं, मुग्धं च तत्
मुखारविन्दं च मुग्धमुखारविन्दम् । राधाया मुग्धमुखारविन्दं तस्मिन्मधुप इव
मधुपः । अनेन भावी संभोगो द्योतितः । पुनः किंभूतो हरिः । त्रैलोक्यमौलिस्थलीनां
भावः । 'दम्पती जम्पती जायापती भार्यापती च तौ' इत्यमरः ॥ ५ ॥ पुनरपि
त्वरयितुं कृष्णोत्कण्ठामाह - सभयेति । हे सुमुखि, सुभगः शोभनः श्रीकृष्णस्त्वां
पश्यन्कृतार्थतामुपैतु प्राप्नोतु । कीदृशीम् । तिमिरेऽन्धकारे सति पथि वर्त्मनि तदा भयचकितं
भयसहितं यथा स्यादेवं दृशं नेत्रं विन्यस्यन्तीमर्पयन्तीम् । पुनः कीदृशीं त्वाम् ।
प्रतितरु तरुं तरुं प्रति मुहुः पुनः पुनः स्थित्वा मन्दं यथा स्यादेवं पदानि वितन्वतीम् ।
गाडान्धकारे तमालविटपेषु को वेदात्र कृष्णः स्थितो भविष्यतीत्याशयेन वायमेव कृष्ण
इति भ्रमात्तदन्तिकमुपेत्य पश्चाद्विशेषदर्शने सति तत उत्थाय पुनर तथेत्येवं प्रतितरु
स्थित्वा गच्छन्तीमिति भावः । पुनः कीदृशीम् । कथमपि शनैः शनैश्चरणक्षेपादिना रह
१ 'दृशौ ' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri