2022-10-18 04:14:09 by ambuda-bot
This page has not been fully proofread.
गीतगोविन्दकाव्यम्
[ सर्ग: ५
अन्यार्थं गतयोर्भ्रमान्मिलितयोः संभाषणैजनतो-
दम्पत्योरिह को न को न तमसि ब्रीडाविमिश्रो रसः ॥ ५ ॥
हि सर्वमपि सर्वरसागमं भवतीति । किंभूतयोर्दम्पत्योः अन्यार्थं गतयोः परस्त्रीपर •
पुरुषत्वेन प्राप्तयोः । पुनः किंभूतयोः । भ्रमान्मिलितयोः प्रतिकुञ्जमितस्ततः परिभ्र-
मणान्मिलितयोः । सान्द्रे तमसि परस्पराला पैरेव जानतोः । अथवालापैरित्यत्र सात्वि-
कभावेन स्वरभङ्गादेवावगमात् । अथवान्यमर्थं प्रयोजनमुद्दिश्य गतयोः । परस्त्रीपरपु-
रुषौ हि व्याजान्तरेणैव मिलतः । अन्येषां भ्रान्तिमुत्पाद्य मिलितयोः । तमेव रसमाह
- आश्लेषादनु भयस्थायिभावो भयानकः प्रादुर्भावमासादयति । चुम्बनादनु मा मेति
क्षामाक्षरोल्लापिनीं कान्तां कामलप्य कृतं हठवृत्त्येति शोकमिवानुभवन्करुणाकलि-
तान्तःकरणो भवति । तदनु प्रोत्साहनार्थमुत्साहात्मा नखोल्लेखादनु वीरोऽवत-
रति । एवं साधने संमिलिते किमिदमपूर्वं सुखमन्वभवमिति भावान्तरं गमितयोविं-
स्मयसहचरोऽद्भुत उद्भटतामाटीकते । एवं च कोमोद्बोधे नानाविलासविलसितादनु हा-
ससद्दावस्थानो हास्यः समुल्लसति । एवं कृतपरिकरसंकरः सकलरसचक्रवर्ती आनन्द-
मधुसन्दोहमधुरो रतिसहचरः शृङ्गाररसः समुन्मिषति । तव्यतिकरादनु प्रीतयोरुक्त-
रसः सर्वोऽपि ब्रीडासंवलितः शृङ्गारले समुन्मिषति । अत्राश्लेषानन्तरं चुम्बनं, ततो
नखक्षतं, ततः कामविकाराः ततो मैथुनं, ततः प्रीतिः, ततो रसभावनेति क्रमोऽपि
कामशास्त्र कथितः । तदुक्तं भरते — 'आश्लेषचुम्बन नखक्षतकामबोधशीघ्रत्व मैथुनमन
न्तसुखप्रबोधम् । प्रीतिस्ततोऽपि रसभावनमेव कार्यमेवं नितान्त चतुराः सुचिरं रम-
ते ॥' शार्दूलविक्रीडितं छन्दः । दीपकमलंकारः समुच्चयो भ्रान्तिमांश्च ॥ ५॥
यापत्योः को न व्रीडाविमिश्रो लज्जासमन्वितो रस आविर्भवतीत्यर्थः । कीदृशोर्दम्पत्योः ।
अन्यार्थं गतयोरन्यां नायिकामन्यनायकं चोद्दिश्य गतयोः । पुनः कीदृशोः । आश्लेषादनु
आलिङ्गनात्पश्चाच्चुम्बनं तदनु यो नखोल्लेखः, तदनु यः संभ्रमः संभोगादरः
कामोद्वेगः, तदनु यो रतारम्भः सुरतारम्भः, तदनु प्रीतयोर्लब्धानन्दयोः संभाषणैजीनतोरन्य-
नायिकानामग्राहिपत्युरन्यनायकनामग्राहिपत्याश्चालापैः कथं पतिः कथमियं मे पत्नीतिस्वर-
विशेषेण जानतोरित्यर्थः । रतान्ते परस्परं ज्ञातेऽपि न तुल्यापराधात्परस्परदोषोद्भावनम् ।
किंतु लज्जासहितः शृङ्गाररस एवाविर्भवतीत्यर्थः । अथ प्रथमाश्लेषस्ततश्चुम्बनं
ततो नखक्षतं ततः कामोद्रेकस्ततः संभ्रमस्ततो रतान्तस्ततः प्रीतिस्ततो रसभावन मिति
कामशास्त्रसिद्धः क्रमोऽपि कथितः । तदुक्तं भरते - 'आश्लेषचुम्बननखक्षतकामबोध-
शीघ्रत्वमैथुनमनन्तसुखप्रबोधम् । श्रीतिस्ततोऽपि रसभावन मेव कार्यमेवं नितान्त चतुरा: सुचिरं
रमन्ते' इति । नन्वष्टधा सुरतरतमप्युक्तं कामशास्त्रे तत्र च दन्तक्षतकूजितके शग्रहणादिक-
मप्युक्तम् । तथा च कामशास्त्रोक्तऋमरक्षा नेति न वाच्यम् । तस्य नि:शङ्ककेलिकमा •
धायकत्वादिह तु परपुरुपं परनारीं चोद्दिश्य गतयोः शङ्काकुलचित्तत्वात्संक्षिप्त पूर्वोक्तक मेणैव
इति भावः । तथाह रुद्रः — ईर्ष्या कुलस्त्रीषु न
निःशङ्ककेलिर्न पराङ्गनासु' इति । तस्मादेतादृशे गाढान्धकारे ते गमन विलम्बनम नुचित मिति
सुरतारम्भ
नायकस्य
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri