This page has been fully proofread once and needs a second look.

सर्ग: ५ त्व[^१] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
त्व
द्वाम्येन समं समग्रमधुना तिग्मांशुरस्तंगतो
 

गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।

कोकानां करुणस्व[^२]नेन सदृशी दीर्घा मदभ्यर्थना
 

तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ४ ॥

 
आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-

प्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः ।
 

 
इति कदनशब्दतात्पर्यम् । हरिणी छन्दः । दीपकालंकारः ॥ ३ ॥ इदानीं सांप्रतमेव

गन्तुं सांप्रतमिति हेतुमाह - -<pratika>त्वद्वाम्येनेति ।</pratika> हे मुग्धे, समग्रं यथा स्यात्तथाधुना

त्वद्वाम्येन समं तव वक्रतया सहितं रविरस्तं गतः । ( रविः ) तवाभिमानश्चोभयमे -
-
वाभिसारविलम्बकर्तृ गतसिमित्यर्थः । च पुनर्गोविन्दस्य मनोरथेन सह तमः सान्द्रतां

प्राप्तम् । तिग्मांशावस्तं गते चन्द्रे चानुदिते तमः सान्द्रं भवत्येव । अयं कालोऽभि-

सारत्वरायै । अनु च सान्द्रे तमसि मत्प्रियागमिष्यतीति गोविन्दस्य मनोरथो वृद्धिं

प्राप्तः । अनु च मम प्रार्थना कोकानां चक्रवाकानां करुणस्वनेन सदृशी दीर्घा जाता ।

सहशीति विरहाधिक्यात्करुण निवेदकस्वरत्वाच्च । तत्तस्मात्कारणाद्विलम्बनं विफलम-

भिसरणक्षणातिपातो निरर्थकः । असावभिसारक्षणो रम्यो वर्तते । ईदृशी प्रियवा
-
दिनी प्रियसखी, सान्द्रान्तमसं चानुकूलं, नीलनिचोलादि साधनं, प्रियतमस्त्व-

देकतानः । एवं सति गमन विलम्बने '"मुग्धे'" इति संबोधन मौचितीमावहति । सहो-

क्तिरलंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ४ ॥ तत्रागतायास्ते बहुविधकाम कौतुकं

भविष्यतीति प्रलोभयति -- <pratika>आश्लेषादिति ।</pratika> इह तमसि वर्तमाने दम्पत्योर्व्रींरीडावि-

मिश्रः कः को रसो न इति न । अपि तु सर्व एव रसो भवतीति । व्रीडा वि विमिश्रले
 
त्वे
 
त्वरयितुमाह -- <pratika>त्वद्वाबाष्पेति । </pratika>हे मुग्धे, असावभिसारक्षणोऽभिसारयोग्यः क्षणो रम्यस्ततो

विलम्बनं विफलं निष्फलम् । रम्यत्वहेतुमाह । त्वद्वाबाष्पेण त्वदीयनेत्रजलेन सह

तिग्मांशुः सूर्यः समग्रं यथा स्यात्सामस्त्येन यथा स्यादेवमस्तं गतः । त्वदीयबाष्पमप्यस्तं

गतं सूर्योऽप्यस्तं गत इत्यर्थः । क्वचित् '"वाक्येन समम्'" इति पाठः । तदा त्वदीयवाक्येन

त्वदीयवचनेन समं तिग्मांशुरस्तं गतः । मयि गमनाय त्वरयन्त्यामुत्तरमप्रयच्छन्त्यास्
ते
वाक्यं मुखान्नोपलभ्यत इत्यर्थः । तमस्तिमिरं गोविन्दस्य मनोरथेन समं वान्ञ्छया

सह सान्द्रतां निबिडतां प्राप्तं गतम् । गोविन्दस्य मनोरथोऽन्धकारश्च निबिडो
 

जात
इत्यर्थः । कोकानां चक्रवाकानां करुणस्वरेण करुणरसगर्भेण ( ध्वनिना ) सदृशी

दीर्घा विस्तीर्णा मदभ्यर्थना संपन्ना । यथा कोकानां करुणस्वरो नानाप्रकारः श्रूयत एवं

मदीया वागुक्तयोsपि संप्रति तवाग्रे भवन्तीति भावः । अयं सहोक्तिनामालंकारः ।

तदुक्तं दण्डिना—' -- "सहोक्तिः सहभावेन कथनं गुणकर्मणाम्'" इति ॥ ४ ॥ पुनरप्यन्धकारस्य

नैबिड्यकथनेनाभिसारक्षणस्यातिरम्यता मेवाह -- <pratika>आश्लेषादिति ।</pratika> इह तमसि दम्पत्योर्जा-
-
 

 
[^
'.] "त्वद्वाबाष्पेण' '" "त्वद्वाक्येन'" इति च पाठौ । [^ '.] "स्वरेण'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri