This page has not been fully proofread.

सर्ग: ५ ] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तंगतो
 
गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुणस्नेन सदृशी दीर्घा मदभ्यर्थना
 
तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ४ ॥
आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-
प्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः ।
 
इति कदनशब्दतात्पर्यम् । हरिणी छन्दः । दीपकालंकारः ॥ ३ ॥ इदानीं सांप्रतमेव
गन्तुं सांप्रतमिति हेतुमाह - त्वद्वाम्येनेति । हे मुग्धे, समग्रं यथा स्यात्तथाधुना
त्वद्वाम्येन समं तव वक्रतया सहितं रविरस्तं गतः । ( रविः ) तवाभिमानश्चोभयमे -
वाभिसारविलम्बकर्तृ गतसित्यर्थः । च पुनर्गोविन्दस्य मनोरथेन सह तमः सान्द्रतां
प्राप्तम् । तिग्मांशावस्तं गते चन्द्रे चानुदिते तमः सान्द्रं भवत्येव । अयं कालोऽभि-
सारत्वरायै । अनु च सान्द्रे तमसि मत्प्रियागमिष्यतीति गोविन्दस्य मनोरथो वृद्धिं
प्राप्तः । अनु च मम प्रार्थना कोकानां चक्रवाकानां करुणखनेन सदृशी दीर्घा जाता ।
सहशीति विरहाधिक्यात्करुण निवेदकस्वरत्वाच्च । तत्तस्मात्कारणाद्विलम्बनं विफलम-
भिसरणक्षणातिपातो निरर्थकः । असावभिसारक्षणो रम्यो वर्तते । ईदृशी प्रियवा
दिनी प्रियसखी, सान्द्रान्तमसं चानुकूलं, नीलनिचोलादि साधनं, प्रियतमस्त्व-
देकतानः । एवं सति गमन विलम्बने 'मुग्धे' इति संबोधन मौचितीमावहति । सहो-
क्तिरलंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ४ ॥ तत्रागतायास्ते बहुविधकाम कौतुकं
भविष्यतीति प्रलोभयति — आश्लेषादिति । इह तमसि वर्तमाने दम्पत्योव्रींडावि-
मिश्रः कः को रसो न इति न । अपि तु सर्व एव रसो भवतीति । व्रीडा वि मिश्रले
 
त्वरयितुमाह —त्वद्वाष्पेति । हे मुग्धे, असावभिसारक्षणोऽभिसारयोग्यः क्षणो रम्यस्ततो
विलम्बनं विफलं निष्फलम् । रम्यत्वहेतुमाह । त्वद्वाष्पेण त्वदीयनेत्रजलेन सह
तिग्मांशुः सूर्यः समग्रं यथा स्यात्सामस्त्येन यथा स्यादेवमस्तं गतः । त्वदीयबाष्पमप्यस्तं
गतं सूर्योऽप्यस्तं गत इत्यर्थः । क्वचित् 'वाक्येन समम्' इति पाठः । तदा त्वदीयवाक्येन
त्वदीयवचनेन समं तिग्मांशुरस्तं गतः । मयि गमनाय त्वरयन्त्यामुत्तरमप्रयच्छन्त्यास्त
वाक्यं मुखान्नोपलभ्यत इत्यर्थः । तमस्तिमिरं गोविन्दस्य मनोरथेन समं वान्छया
सह सान्द्रतां निबिडतां प्राप्तं गतम् । गोविन्दस्य मनोरथोऽन्धकारश्च निबिडो
 
इत्यर्थः । कोकानां चक्रवाकानां करुणस्वरेण करुणरसगर्भेण ( ध्वनिना ) सदृशी
दीर्घा विस्तीर्णा मदभ्यर्थना संपन्ना । यथा कोकानां करुणस्वरो नानाप्रकारः श्रूयत एवं
मदीया वागुक्तयोsपि संप्रति तवाग्रे भवन्तीति भावः । अयं सहोक्तिनामालंकारः ।
तदुक्तं दण्डिना—'सहोक्तिः सहभावेन कथनं गुणकर्मणाम्' इति ॥ ४ ॥ पुनरप्यन्धकारस्य
नैबिड्यकथनेनाभिसारक्षणस्यातिरम्यता मेवाह — आश्लेषादिति । इह तमसि दम्पत्योर्जा-
-
 
१ 'त्वद्वाष्पेण' 'त्वद्वाक्येन' इति च पाठौ । २ 'स्वरेण' इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri