This page has been fully proofread once and needs a second look.

८४
 
विकिरति मुहुः श्वासाना[ सर्गः ५
 
गीतगोविन्दकाव्यम्
 
विकिरति मुहुः श्वासाना
^१]शाः पुरो मुहुरीक्षते
 

प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति ।

रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते
 

मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३ ॥
 

 
प्रमुदितहृदयम् । पुनः किंभूते जयदेवे । कृतहरिसेवे । किंभूतं हरिम् । सुकृतमिव

कमनीयं मनोहरम् ॥ ८ ॥ इदानीं सत्वरागमनाय प्रोत्साहयति - - <pratika>विकिरतीति ।
</pratika>
हे कान्ते, तव प्रियो मदनकदनक्लान्तो वर्तते मदनेन क्लान्तितिं प्राप्तो वर्तते । तथाविधः

सन्किकिं करोतीत्याह -- त्वं नागतैवेति कृत्वा मुहुः श्वासान्विकिरति निःश्वासधारां

मुञ्चति । नागतैवेति कृत्वा मुहुर्वारंवारमाशा ईक्षते विलोकयति । व्याकुलतया

कस्या दिशः समेष्यतीति सर्वा एककालमिवावलोकयति । तत्राप्यदृष्ट्वा भ्रान्तः

सन्कुञ्जं प्रविष्टा भविष्यतीति मुहुर्वारंवारं कुञ्जं प्रविशति । मुहुर्मुहुरतरिति कोऽर्थः ?

तत्राप्यदृष्ट्वा बहिर्निर्यातस्तत्रैव निहुह्नुत इव तिष्ठतीति मुहुर्मुहुः प्रविशतीति
मुहुर्मुहुर्वारंवारं '

मुहुर्मुहुर्वारंवारं "
कुतो नागता, किं केनचिन्निवारिता, उत कुतो भयाद्वा'" इत्यादि

तस्या अनागमनहेतुं विमृश्य मुहुर्वारंवारं बहु बहुविधं गुञ्जन् अव्यक्तशब्
दं
कुर्वन् ताम्यति ग्लायति । अथवा वृथेदं विर्शनम्, आग मिष्यत्येवेति मुहुःशय्यां

रचयति । तथाप्यदृष्ट्वा पर्याकुलं यथा स्यात्तथा ममानुरागादाग मिष्यत्येवेति मुहुरीक्षते
 

 

 
कीदृशं हरिम् । सदयं दयासहितम् । पुनः कीदृशम् । सुकृतेन पुण्येन कमनीयं

वाञ्छनीयम् ॥ ८ ॥ श्लोकेनापि नायकस्योत्कण्ठामाह - - <pratika>विकिरतीति । </pratika>हे कान्ते, तव

प्रियो मदनकदनकृाक्लान्तः । मदनः कामस्तज्जनितं कदनं दुःखं तेन काक्लान्तो ग्लानो

वर्तते । मुहुर्वारंवारं श्वासान्संतापनि:निःश्वासान्विकिरति क्षिपति । नासापुरो नासाग्रं

मुहुर्वारंवारमीक्षते । ध्यानेनापि प्रियां पश्यामीति नासाग्रं वीक्षमाणस्त्वां ध्यायतीति

भाव:वः । ध्यानसमये नासाग्रवीक्षणेन मनःसंयमो भवतीति नासापुर इत्युक्तम् । क्वचित्
'

"
श्वासानाशा'" इति तालव्यशकारवान्पाठस्तदा श्वासान्विकिरति । अथ पुर आशा:
शाः
पुरोभागस्थदिशः अनेन वर्त्मनागमिष्यतीत्याशयेन दृष्ट्वा मुहुरीक्षत इत्यर्थः । मुहुर्वारंवारं

कुअंञ्जं प्रविशति गुञ्जञ्शब्दं कुर्वन्कदाचिदनेन वर्त्मनागत्य निलीय तिष्ठतीत्याशयेन

ध्याने त्वां दृष्ट्वा केलये वा कुञ्जं प्रविशतीत्यर्थः । मुहुर्वारंवारं बह्वधिकं यथा

स्यादेवं ताम्यति ग्लानो भवति । ध्यानविच्छेदे त्वां तत्रापश्यंस्ताम्यतीति भावः ।

क्वचित् '"कूजन्मुहुस्ताम्यति'" इति पाठः । तदा कूजन्नार्तनादं कुर्वंस्ताम्यतीत्यर्थः । मुहुर्वारंवारं

शय्यां रचयति । एतावत्कालं गुरुजनभीत्या नायातातः परमायास्यतीति शय्यां

रचयतीति भावः । मुहुर्वारंवारं परित आकुलं यथा स्यादेवमीक्षते । '"नासा तु नासिकायां
स्यात्'

स्यात्"
इति विश्वः । '"आशास्तृष्णा दिशः प्रोक्ताः'" इति च ॥ ३ ॥ पुनरपि
 

 
[^
'.] "न्नासापुरो'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri