This page has been fully proofread once and needs a second look.

सर्गः ५] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
 
विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।

किसलयशयने पङ्कजनयने निधिमिव हर्षनिदा[^१]नम् । धीर० ॥ ६ ॥

 
हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
 
८३
 

कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् । धीर० ॥ ७ ॥

 
श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
 

प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ धीर० ॥८॥
 

 
<pratika>
विगलिते ति । ति ।</pratika>हे राधे, किसलयशयने शय्यायां वर्तमाने पङ्कजनयने पुण्डरीकाक्षे ज
-
घनं घटय । किंभूतं जघनम् । <error>विगलितवसनम् </error><fix>विगलितवसनं</fix>स्वयमेव ततः परिहृतरसनं त्यक्तमेखलम् ।

अत एव वसनपिधानरहितम् । अत एव निधिना उपमीयते । कमिव निधिमिव ।

किंभूतं निधिं जघनं च । हर्षनिदानं हर्षस्यादिकारणम् ॥ ६ ॥ <pratika>हरिरभिमानीति ।</pratika> हे

राधे, सत्वररचनं शीघ्रसाधनं यथा स्यात्तथा मम वचनं कुरु । किंभूतं वचनम् -
-
मधुरिपुकामं कृष्णवाञ्छां पूरय । न पूर्यते चेत् किं स्यात् । हरिरभिमानी त्वत्तो लाघवं

न सहते पश्चात्त्वां त्यक्ष्यति । पश्चादपि करिष्यसि चेदिदानीमेव कुरु । अन्यथेदानी मियं

रजनिरपि विरामं याति । अभिसारकालोऽपि यास्यति । वर्तमानसामीप्याद्वर्तमानवत्

॥ ७ ॥ <pratika>श्रीजयदेवेति । </pratika>हे वैष्णवाः, हरिं नमत नमस्कुरुत । किंभूतं हरिम् । जय-

देवे अतिसदयम् । किंभूते जयदेवे । परमरमणीयमिदं पूर्वोत्क्तं भणति । तत एव
 

 
बलाका कामुकी प्रोक्ता बलाका रवको मतः'" (?) इति शाश्वतः ॥५॥ पुरुषायितसुखोत्कण्ठां

कारयित्वा संप्रति नायककृतरतोत्कण्ठां जनयितुमाह -- <pratika>विगलितमिति ।</pratika> हे पङ्कजनयने

पद्मनयने राधे, किसलयशयने नवपल्लवशय्यायां कृष्णेन रचितायां जघनं घटय

आरोपय । कीदृशं जवनम् । विगलितं कोटिकन्दर्पलावण्यश्रीकृष्णदर्शनेन स्वयमेव

स्खलितं वसनं यस्य तत् । अत एवापिधानमनावरणम् । पुनः कीदृशम् । परिहृता

दूरीकृता रसना क्षुद्रघण्टिका येन तादृशम् । पुनः कीदृशम् । हर्षस्यानन्दस्य

निधानं गृहम् । कमिव । निधिमिव । '"रसना काञ्चिजिह्वयोः'" इति विश्वः ॥ ६ ॥
हरिरिति ।

<pratika>हरिरिति ।</pratika>
हरिः कृष्णोऽभिमानी मनस्वी । तथा चैतावता दैन्येनापि दुर्ग्रहमत्यजन्त्यां

त्वयि को वेदौदास्यमेवाचरेदिति भावः । इयं रजनिरपि रात्रिरपीदानीं विराममवसानं

याति । तथा च मम वचनं '"चल सखि कुञ्जम्'" इत्यादि मा
मद्वाक्यं कुरु ।
कीदृशम् । सत्वरं त्वरया वेगेन सहितं गमनं रचयेति सत्वररचनम् । मधुरिपोः

कृष्णस्य कामं वान्ञ्छां पूरय । नायिका चात्राभिसारिका । तल्लक्षणं च रसार्णवे
'

"
मदनानलसंतप्ता याभिसारयति प्रियम् । ज्यौत्स्त्रीनीतमस्विनीयानयोग्याम्बरविभूषणा ॥

स्वयं चाभिसरेद्या तु सा भवेदभिसारिका ॥'" इति ॥ ७ ॥ <pratika>श्रीजयदेवेति । </pratika>श्रीजयदेवे

कवौ । कृता हरेः सेवा येन तादृशे परमरमणीयं यथा स्यादेवं भति सति । हे

जनाः,
हरिं कृष्णं नमत । कथम् । प्रमुदितमानन्दयुक्तं हृदयं यथा स्यात्तथा तादृशम् ।
 

 
जनाः,
 

 
[^
'.] "निधानम्'" इति पाठः ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri