2022-10-18 04:14:08 by ambuda-bot
This page has not been fully proofread.
सर्गः ५] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् । धीर० ॥ ६ ॥
हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
८३
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् । धीर० ॥ ७ ॥
श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ धीर० ॥८॥
विगलिते ति । हे राधे, किसलयशयने शय्यायां वर्तमाने पङ्कजनयने पुण्डरीकाक्षे ज
घनं घटय । किंभूतं जघनम् । विगलितवसनम् स्वयमेव ततः परिहृतरसनं त्यक्तमेखलम् ।
अत एव वसनपिधानरहितम् । अत एव निधिना उपमीयते । कमिव निधिमिव ।
किंभूतं निधिं जघनं च । हर्षनिदानं हर्षस्यादिकारणम् ॥ ६ ॥ हरिरभिमानीति । हे
राधे, सत्वररचनं शीघ्रसाधनं यथा स्यात्तथा मम वचनं कुरु । किंभूतं वचनम् -
मधुरिपुकामं कृष्णवाञ्छां पूरय । न पूर्यते चेत् किं स्यात् । हरिरभिमानी त्वत्तो लाघवं
न सहते पश्चात्त्वां त्यक्ष्यति । पश्चादपि करिष्यसि चेदिदानीमेव कुरु । अन्यथेदानी मियं
रजनिरपि विरामं याति । अभिसारकालोऽपि यास्यति । वर्तमानसामीप्याद्वर्तमानवत्
॥ ७ ॥ श्रीजयदेवेति । हे वैष्णवाः, हरिं नमत नमस्कुरुत । किंभूतं हरिम् । जय-
देवे अतिसदयम् । किंभूते जयदेवे । परमरमणीयमिदं पूर्वोत्तं भणति । तत एव
बलाका कामुकी प्रोक्ता बलाका रवको मतः' (?) इति शाश्वतः ॥५॥ पुरुषायितसुखोत्कण्ठां
कारयित्वा संप्रति नायककृतरतोत्कण्ठां जनयितुमाह — विगलितमिति । हे पङ्कजनयने
पद्मनयने राधे, किसलयशयने नवपल्लवशय्यायां कृष्णेन रचितायां जघनं घटय
आरोपय । कीदृशं जवनम् । विगलितं कोटिकन्दर्पलावण्यश्रीकृष्णदर्शनेन स्वयमेव
स्खलितं वसनं यस्य तत् । अत एवापिधानमनावरणम् । पुनः कीदृशम् । परिहृता
दूरीकृता रसना क्षुद्रघण्टिका येन तादृशम् । पुनः कीदृशम् । हर्षस्यानन्दस्य
निधानं गृहम् । कमिव । निधिमिव । 'रसना काञ्चिजिह्वयोः' इति विश्वः ॥ ६ ॥
हरिरिति । हरिः कृष्णोऽभिमानी मनस्वी । तथा चैतावता दैन्येनापि दुर्ग्रहमत्यजन्त्यां
त्वयि को वेदौदास्यमेवाचरेदिति भावः । इयं रजनिरपि रात्रिरपीदानीं विराममवसानं
याति । तथा च मम वचनं 'चल सखि कुञ्जम्' इत्यादि मा
कीदृशम् । सत्वरं त्वरया वेगेन सहितं गमनं रचयेति सत्वररचनम् । मधुरिपोः
कृष्णस्य कामं वान्छां पूरय । नायिका चात्राभिसारिका । तल्लक्षणं च रसार्णवे
'मदनानलसंतप्ता याभिसारयति प्रियम् । ज्यौत्स्त्रीतमस्विनीयानयोग्याम्बरविभूषणा ॥
स्वयं चाभिसरेद्या तु सा भवेदभिसारिका ॥' इति ॥ ७ ॥ श्रीजयदेवेति । श्रीजयदेवे
कवौ । कृता हरेः सेवा येन तादृशे परमरमणीयं यथा स्यादेवं भगति सति । हे
हरिं कृष्णं नमत । कथम् । प्रमुदितमानन्दयुक्तं हृदयं यथा स्यात्तथा तादृशम् ।
।
जनाः,
१ 'निधानम्' इति पाठः ।
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri