This page has been fully proofread once and needs a second look.

८२
 
गीतगोविन्दकाव्यम्
 
उरसि मुरारेरु पहितहारे घन इव तरलबलाके ।
 

तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके । धीर० ॥५॥
 

 
[ सर्ग: ५
 

 
मञ्जीरं नूपुरं त्यज । किंभूतं मञ्जीरम् । अधीरमज्ञम् । अत एव मुखरं वाचालम-

भिसारोचितं न जानाति । अथवा साध्वेतन्मञ्जीरस्य मुखरत्वं यतो निमित्त नैमित्तिकं,

कुतो मञ्जीरध्वनावित्यत उत्पत्तेः । पुनः किंभूतम् । केलौ क्रीडायां सुलोलमतिलो-

लम् । अत एव रिपुसिमिव । अपि च नीलनिचोलं नीलं रक्तकृष्णं वस्त्रं शीलय परिधेहि ।

किंभूतम् । कुञ्जे तिमिरपुञ्जेन सहितं । अथवा सतिमिरपुञ्जं यथा स्यात्तथा चल ॥४॥

<pratika>
उरसीति । </pratika>हे राधे, हे पीते पीतवर्णे गौरि, त्वं मुरारेरुरसि सुकृतविपाके पुण्यप-

रिणामे राजसि राजिष्यसि । वर्तमानसामीप्ये वर्तमानवत् । किंभूत उरसि । उपहित

आरोपितो हारो यस्मिन् । का कस्मिन्निव । तरलबलाके चञ्चलपक्षिविशेषे घन इव

मेघ इव । केव तडिदिव । कदा । रतिविपरीते पुरुषायितरतिसमये । उपहितहारमुर -

स्तरलबलाकघनेनोपमीयते । सा पीता तडित् । तस्याः पुरुषायिते चञ्चलत्वम् ॥ ५ ॥
 

 
कमिव शत्रुमिव । रिपुरप्यधीर उत्तरलो मुखरो वाचाल :लः केलौ सुलोलश्च भवतीति

मञ्जीरे तत्साम्यम् । हे सखि, तिमिरपुञ्जेनान्धकारसमूहेन सहितं कुअंञ्जं चल गच्छ ।

नीलं निचोलं प्रच्छदपटं शीलय परिधेहि । '"मञ्जीरो नूपुरोऽस्त्रियाम्'" इत्यमरः । '"निचोलः

प्रच्छदपट : 'टः" इति यादवः ॥ ४ ॥ राधाया अत्युत्कण्ठां जनयितुमाह - - <pratika>उरसीति ।
</pratika>
हे पीते गौराङ्गि । पुनः कीदृशे । सुकृतविपा के सुकृतस्य पुण्यस्य विपाकः परिणामो

यस्यास्तादृशी । पुनः कीदृशे । उपहितहारे उपहितोऽर्पितो हारो यया तादृशे । रतिविपरीते

रतौ सुरते विपरीते वैपरीत्ये पुंसीभवनाय त्वं मुरारेरुरसि हृदये राजसि । अधुनैव

राजिष्यसि । राजसीत्यत्र भविष्यत्सामीप्ये वर्तमानः । यद्वा '"सुकृतविपाके' '" "उपहितहारे'
"
इति द्वयमप्युरसीत्यस्यैव विशेषणम् । तदा त्वत्सुकृतस्य विपाकरूपे, उपहितः हारो

यत्र तादृशे उरसीत्यर्थः । केव । तडिदिव विद्युदिव । उरसि कीदृशीव । तरलबलाके ।

तरला चञ्चला बलाका कपङ्क्तिर्यित्र तादृशे । घन इव मेघ इव । अत्र पीतविद्युतो

राधाया उपमानान्मेघस्य सजलत्वं विवक्षितम् । तदुक्तम् '"पीता वर्षाय विज्ञेया'" इति ।

अत्र कृष्णहृदयस्य श्यामत्वेन सजलमेसाम्यम् । राधायाश्चञ्चलहारस्य चञ्चलबलाकाप-

ङ्किक्तिसाम्यम् । राधायाश्च तदानीं तरलतया पीततया पीतविद्युत्साम्यम् । अत्र यद्यपि

बलाकाया मेघस्याधः स्थितत्वाद्विद्युतश्चोपरि वर्तमानत्वाद्धार विशिष्टकृष्णोरःस्थलसद्राधोपमानं

च तरलबकपङ्क्तिविशिष्टमेघो परिस्थितविद्युतो विरुद्धं, तथापि मेघोपरि कपकिङ्क्तिर्यदि

भवति तदुपरि च विद्युत्तदैतादृशं राधाया उपमानं भवतीत्यभूतोपमा वोबोध्या ।

तदुक्तं दण्डिना—' -- "सर्वपद्मप्रभासार:रः समाहृत इव द्युचित् । तवाननं विभातीति

तामभूतोपमां विदुः ॥' या तरलव" या तरलबलाके इत्यपि राधाया एव विशेषणम् । तथा च ।

हे तरलबलाके, हे चञ्चलकामुकीत्यर्थः । तस्मिन्कोटि कन्दर्पलावण्ये दृष्टे त्वमेव कामुकी

सती पुरुषायितमाचरिष्यसीति भावः । '"बलाका बकपड़ौ स्याइङ्क्तौ स्याद्बलाका बिसकण्ठिका ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
2