This page has not been fully proofread.

८२
 
गीतगोविन्दकाव्यम्
 
उरसि मुरारेरु पहितहारे घन इव तरलबलाके ।
 
तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके । धीर० ॥५॥
 

 
[ सर्ग: ५
 
मञ्जीरं नूपुरं त्यज । किंभूतं मञ्जीरम् । अधीरमज्ञम् । अत एव मुखरं वाचालम-
भिसारोचितं न जानाति । अथवा साध्वेतन्मञ्जीरस्य मुखरत्वं यतो निमित्त नैमित्तिकं,
कुतो मञ्जीरध्वनावित्यत उत्पत्तेः । पुनः किंभूतम् । केलौ क्रीडायां सुलोलमतिलो-
लम् । अत एव रिपुसिव । अपि च नीलनिचोलं नीलं रक्तकृष्णं वस्त्रं शीलय परिधेहि ।
किंभूतम् । कुञ्जे तिमिरपुञ्जेन सहितं । अथवा सतिमिरपुजं यथा स्यात्तथा चल ॥४॥
उरसीति । हे राधे, हे पीते पीतवर्णे गौरि, त्वं मुरारेरुरसि सुकृतविपाके पुण्यप-
रिणामे राजसि राजिष्यसि । वर्तमानसामीप्ये वर्तमानवत् । किंभूत उरसि । उपहित
आरोपितो हारो यस्मिन् । का कस्मिन्निव । तरलबलाके चञ्चलपक्षिविशेषे घन इव
मेघ इव । केव तडिदिव । कदा । रतिविपरीते पुरुषायितरतिसमये । उपहितहारमुर -
स्तरलबलाकघनेनोपमीयते । सा पीता तडित् । तस्याः पुरुषायिते चञ्चलत्वम् ॥ ५ ॥
 
कमिव शत्रुमिव । रिपुरप्यधीर उत्तरलो मुखरो वाचाल : केलौ सुलोलश्च भवतीति
मञ्जीरे तत्साम्यम् । हे सखि, तिमिरपुञ्जनान्धकारसमूहेन सहितं कुअं चल गच्छ ।
नीलं निचोलं प्रच्छदपटं शीलय परिधेहि । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । 'निचोलः
प्रच्छदपट : ' इति यादवः ॥ ४ ॥ राधाया अत्युत्कण्ठां जनयितुमाह - उरसीति ।
हे पीते गौराङ्गि । पुनः कीदृशे । सुकृतविपा के सुकृतस्य पुण्यस्य विपाकः परिणामो
यस्यास्तादृशी । पुनः कीदृशे । उपहितहारे उपहितोऽर्पितो हारो यया तादृशे । रतिविपरीते
रतौ सुरते विपरीते वैपरीत्ये पुंसीभवनाय त्वं मुरारेरुरसि हृदये राजसि । अधुनैव
राजिष्यसि । राजसीत्यत्र भविष्यत्सामीप्ये वर्तमानः । यद्वा 'सुकृतविपाके' 'उपहितहारे'
इति द्वयमप्युरसीत्यस्यैव विशेषणम् । तदा त्वत्सुकृतस्य विपाकरूपे, उपहितः हारो
यत्र तादृशे उरसीत्यर्थः । केव । तडिदिव विद्युदिव । उरसि कीदृशीव । तरलबलाके ।
तरला चञ्चला बलाका वकपर्यित्र तादृशे । घन इव मेघ इव । अत्र पीतविद्युतो
राधाया उपमानान्मेघस्य सजलत्वं विवक्षितम् । तदुक्तम् 'पीता वर्षाय विज्ञेया' इति ।
अत्र कृष्णहृदयस्य श्यामत्वेन सजलमेवसाम्यम् । राधायाश्चञ्चलहारस्य चञ्चलबलाकाप-
ङ्किसाम्यम् । राधायाश्च तदानीं तरलतया पीततया पीतविद्युत्साम्यम् । अत्र यद्यपि
बलाकाया मेघस्याधः स्थितत्वाद्विद्युतश्चोपरि वर्तमानत्वाद्धार विशिष्टकृष्णोरःस्थलसद्राधोपमानं
च तरलबकपङ्क्तिविशिष्टमेघो परिस्थितविद्युतो विरुद्धं, तथापि मेघोपरि वकपकिर्यदि
भवति तदुपरि च विद्युत्तदैतादृशं राधाया उपमानं भवतीत्यभूतोपमा वोध्या ।
तदुक्तं दण्डिना—'सर्वपद्मप्रभासार: समाहृत इव चित् । तवाननं विभातीति
तामभूतोपमां विदुः ॥' या तरलवलाके इत्यपि राधाया एव विशेषणम् । तथा च ।
हे तरलबलाके, हे चञ्चलकामुकीत्यर्थः । तस्मिन्कोटि कन्दर्पलावण्ये दृष्टे त्वमेव कामुकी
सती पुरुषायितमाचरिष्यसीति भावः । 'बलाका बकपड़ौ स्याइलाका बिसकण्ठिका ।
 
CC-0Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri
 
2