This page has been fully proofread once and needs a second look.

सर्ग: ५] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ८१
 
नामसमेतं कृतसङ्केतं वादयते मृदु वेणुम् ।
 

बहु मनुतेऽर्तत[^१]नु ते तनुसङ्गतपवनचलितमपि रेणुम् । धीर० ॥२॥
पतति पतं

 
पतति पत[^२]
त्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
 

रचयति शयनं सच कितनयनं पश्यति तव पन्थानम् । धीर० ॥ ३ ॥

 
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् ।
 

चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् । धीर० ॥४॥
 
-
 

 
आयुरेवेद मितिवत्सुखहेतुलात्वाच्छमेव ॥ १ ॥ अपि च । <pratika>नामसमेतमिति ।</pratika> हे राधे,

स हरिर्मृदुवेणुं कोमलवंशीं वादयते । मृद्विति क्रियाविशेषणं वा । कथम् । नाम-

समेतं यथा स्यात्तथा च नामाक्षरसंयुक्तं कृतसंकेतं यथा स्यात्तथा च । पुनस्ते तव

तनुः शरीरं शरीरसंगतपवनचलितं रेणुमपि बहु मनुते । कथम् । अतनु अनल्पं यथा

भवति तथा ॥ २ ॥ अपि च । <pratika>पततीति ।</pratika> हे राधे, हरिः शयनं रचयति । तव

पन्थानं पश्यति । कथम् । सचकितनयनं यथा भवति तथा । किंभूतं पन्थानम् ।

शङ्कितभवदुपयानम् । शङ्कितं भवत्या उपयानमागमो यस्मिंस्तत् । क्व सति । पतत्रे

पक्षिपत्रे पतति सति । पुनः क्व सति । पत्रे वृक्षपत्रे विचलति सति ॥ ३ ॥ अपि
च ।

च । <pratika>
मुखरमिति ।</pratika> हे सखि राधे, कुञ्जं चल । अभिसारानुरूपां सामग्रीं शिक्षयति ।

 
मद्वचने न प्रत्येषि तदा कृष्णेन वाद्यमानं वेणुमेवाकर्णयेत्याह -- <pratika>नामसमेत मिति ।
</pratika>
नामसमेतं त्वन्नामाक्षरसहितं यथा स्यादेवं मृदु वेणुं वादयते । हे राधे, प्राणेश्वरि, हे

सुन्दरि, इत्येवं कृष्णेन वाद्यमानाद्वेणोः स्वर आविर्भवतीत्यर्थः । कीदृशं वेणुम् ।

कृतसंकेतं यदा यत्र मया वेणुर्वाद्यते तदा तत्र त्वं राधां नयेत्यर्थः । यद्वा मया कृतो यः

संकेतस्तं त्वन्नामसमेतं त्वन्नामाक्षरसहितं वेणुं वादयते । अहमेतस्मिन्निकुञ्जे तिष्ठामि,

राधे, त्वरितमेहीति कृष्णेन वाद्यमानो वेणुर्वदतीत्यर्थः । किं च । नन्विति संबोधने ।

ते तनुसंगतस्त्वदङ्गसंबन्धी यः पवनो वायुस्तेन चलितमागतमपि रेणुं धूलीं बहु

मनुतेऽधिकं यथा स्यादेवमाद्रियते । अयं रेणुर्धन्यो यस्तदङ्गसङ्गिना मरुता स्पृश्यते,

अहमपि धन्यो यस्तेन रजसा स्पृश्ये', इत्येवं बहु मनुत इति भावः । '"रेणुर्द्वयोः स्त्रियां धूलिः'
"
इत्यमरः ॥ २ ॥ किं च । <pratika>पततीति । </pratika>स कृष्णः शयनं शय्यां रचयति । कथम् । यथा

पतत्रिणि पक्षिणि पतति गच्छति सति शङ्कितं तर्कितं भवत्या उपयानं समीपे गमनं

यत्र एवं यथा स्यात् तथा । कीदृशे पतत्रे । विचलितं पतत्रं पत्रं यस्मात्तत्र । क्वचिद्विचलति

पत्र इति पाठ:ठः सुगम एव । सचकितनयनं यथा स्यादेवं तव पन्थानं त्वदागमनवर्त्म

पश्यति । पत्रे मर्मरचञ्चलताभ्यामायाता मे प्राणेश्वरीति शङ्कया चकितं पन्थानं पश्यतीति

भावः । '"पतत्रं पक्षपक्षिणोः'" इति धरणिः । तदुपयानमित्यत्र '"सर्वनाम्नो वृत्तिमात्र'" इति

पुंवद्भावः ॥ ३ ॥ गमनोत्कण्ठितां दृष्ट्वाह -- <pratika>मुखरमिति ।</pratika> हे सखि, मञ्जीरं नूपुरं त्यज ।

कीदृशम् । केलौ सुलोलं चञ्चलमत एवाधीरममन्दं यथा स्यादेवं मुखरं शब्दायमानम् ।
 

 
[^
'.] "मनुते ननु ते'" इति पाठः । [^ '.] "पतत्रिणि विचलितपत्र'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri