2022-10-18 04:14:07 by ambuda-bot
This page has not been fully proofread.
सर्ग: ५] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ८१
नामसमेतं कृतसङ्केतं वादयते मृदु वेणुम् ।
बहु मनुतेऽर्तनु ते तनुसङ्गतपवनचलितमपि रेणुम् । धीर० ॥२॥
पतति पतंत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
रचयति शयनं सच कितनयनं पश्यति तव पन्थानम् । धीर० ॥ ३ ॥
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् ।
चल सखि कुजं सतिमिरपुजं शीलय नीलनिचोलम् । धीर० ॥४॥
-
आयुरेवेद मितिवत्सुखहेतुलाच्छमेव ॥ १ ॥ अपि च । नामसमेतमिति । हे राधे,
स हरिर्मृदुवेणुं कोमलवंशीं वादयते । मृद्विति क्रियाविशेषणं वा । कथम् । नाम-
समेतं यथा स्यात्तथा च नामाक्षरसंयुक्तं कृतसंकेतं यथा स्यात्तथा च । पुनस्ते तव
तनुः शरीरं शरीरसंगतपवनचलितं रेणुमपि बहु मनुते । कथम् । अतनु अनल्पं यथा
भवति तथा ॥ २ ॥ अपि च । पततीति । हे राधे, हरिः शयनं रचयति । तव
पन्थानं पश्यति । कथम् । सचकितनयनं यथा भवति तथा । किंभूतं पन्थानम् ।
शङ्कितभवदुपयानम् । शङ्कितं भवत्या उपयानमागमो यस्मिंस्तत् । क्व सति । पतत्रे
पक्षिपत्रे पतति सति । पुनः क्व सति । पत्रे वृक्षपत्रे विचलति सति ॥ ३ ॥ अपि
च । मुखरमिति । हे सखि राधे, कुञ्जं चल । अभिसारानुरूपां सामग्रीं शिक्षयति ।
मद्वचने न प्रत्येषि तदा कृष्णेन वाद्यमानं वेणुमेवाकर्णयेत्याह – नामसमेत मिति ।
नामसमेतं त्वन्नामाक्षरसहितं यथा स्यादेवं मृदु वेणुं वादयते । हे राधे, प्राणेश्वरि, हे
सुन्दरि, इत्येवं कृष्णेन वाद्यमानाद्वेणोः स्वर आविर्भवतीत्यर्थः । कीदृशं वेणुम् ।
कृतसंकेतं यदा यत्र मया वेणुर्वाद्यते तदा तत्र त्वं राधां नयेत्यर्थः । यद्वा मया कृतो यः
संकेतस्तं त्वन्नामसमेतं त्वन्नामाक्षरसहितं वेणुं वादयते । अहमेतस्मिन्निकुञ्जे तिष्ठामि,
राधे, त्वरितमेहीति कृष्णेन वाद्यमानो वेणुर्वदतीत्यर्थः । किं च । नन्विति संबोधने ।
ते तनुसंगतस्त्वदङ्गसंबन्धी यः पवनो वायुस्तेन चलितमागतमपि रेणुं धूलीं बहु
मनुतेऽधिकं यथा स्यादेवमाद्रियते । अयं रेणुर्धन्यो यस्तदङ्गसङ्गिना मरुता स्पृश्यते,
अहमपि धन्यो यस्तेन रजसा स्पृश्ये' इत्येवं बहु मनुत इति भावः । 'रेणुर्द्वयोः स्त्रियां धूलिः'
इत्यमरः ॥ २ ॥ किं च । पततीति । स कृष्णः शयनं शय्यां रचयति । कथम् । यथा
पतत्रिणि पक्षिणि पतति गच्छति सति शङ्कितं तर्कितं भवत्या उपयानं समीपे गमनं
यत्र एवं यथा स्यात् तथा । कीदृशे पतत्रे । विचलितं पतत्रं पत्रं यस्मात्तत्र । क्वचिद्विचलति
पत्र इति पाठ: सुगम एव । सचकितनयनं यथा स्यादेवं तव पन्थानं त्वदागमनवर्त्म
पश्यति । पत्रे मर्मरचञ्चलताभ्यामायाता मे प्राणेश्वरीति शङ्कया चकितं पन्थानं पश्यतीति
भावः । 'पतत्रं पक्षपक्षिणोः' इति धरणिः । तदुपयानमित्यत्र 'सर्वनाम्नो वृत्तिमात्र' इति
पुंवद्भावः ॥ ३ ॥ गमनोत्कण्ठितां दृष्ट्वाह — मुखरमिति । हे सखि, मञ्जीरं नूपुरं त्यज ।
कीदृशम् । केलौ सुलोलं चञ्चलमत एवाधीरममन्दं यथा स्यादेवं मुखरं शब्दायमानम् ।
१ 'मनुते ननु ते' इति पाठः । २ 'पतत्रिणि विचलितपत्र' इति पाठः ।
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri