This page has been fully proofread once and needs a second look.

<bold>गुर्जरीरागेण एकतालीतालेन गीयते ॥ प्र० ॥ ११ ॥</bold>
 
रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥ १ ॥
 
धीरसमीरे यमुनातीरे वसति वने वनमाली ।
गोपीपीनपयोधर[‍^१]मर्दनचञ्चलकरयुगशाली ॥ ध्रुवम् ॥
 
कामपूरकतीर्थे येन यस्मात्सिद्धिराप्ता स तमेव ध्यायञ्जपन् निर्भरपरीरम्भामृतं मोक्षं
वाञ्छतीत्युक्तिलेशः । शार्दूलविक्रीडितं वृत्तम् । अत्र काव्यलिङ्गमलंकारः ॥२॥ सांप्रतं
तमभिमुखमभिसर्तुं राधां त्वरयति ॥ तत्र पूर्वं ध्रुवपदं व्याक्रियते -- <pratika>धीरसमीर
इति ।</pratika>इति पदार्थपाठः कुत्रचिदस्ति । गोपीपीनपयोधरमर्दनचपलेन करयुगलेनाढ्य
इत्यर्थः। "आढ्यः शालिनि विख्यातः"। हे राधे, यमुनातीरे वने । यमुनातीरविषये वने ।
अथवा वेतसवने वनमाली श्रीकृष्णो वसति । किंभूते वने । धीरसमीरे मन्दवायुनि ।
एतेन वायोस्त्रैविध्यमुक्तम् । तस्याश्च स्थानेनोत्कण्ठा जनिता । इति ध्रुवः ॥<pratika>रतिसुखेति ।</pratika>
हे नितम्बिनि, तं वनमालिनमनुसर । गमनविलम्बनमभिसाराय कालातिक्रमं न कुरु,
नितम्बिनी हि बृहन्नितम्बत्वाच्चलितुं न शक्नोतीति तां त्वरयति । किंभूतम् । अभि-
सारे संकेतस्थाने गतम्। किंभूतेऽभिसारे । रतिसुखसारे रतिसौख्यप्रधाने । किंभूतं तम् ।
मदनवत्कामवन्मनोहरवेशम् । पुनः किंभूतम् । हृदयेशं मनस ईशम् । तव मनस्त-
दधीनमित्यर्थः । अथवा हृदये वर्तमानं तं वनमालिन मिति योज्यम् । किंभूतम् ।
 
जपञ्झटिति फलसिद्धिर्भवतीति ध्वनितम् । तदुक्तं मञ्जूषायाम् -- "गृहे गोष्ठवनारामनदी-
नागसुरालये । अनुग्रहाद्गुरोः सिद्धिः शीघ्रं स्यादुत्तरोत्तरम्" इति । "मुक्तिः कैवल्यनिर्वा-
णश्रेयोनिःश्रेयसामृतम्" इत्यमरः ॥ २ ॥ किंचित्प्रसादोन्मुखीं राधां वेगेन गमनाय त्वरयि -
तुमाह -- <pratika>रतिसुखेति ।</pratika>गीतस्यास्य गुर्जरीरागः एकतालीतालः । गीतार्थस्तु -- हे नितम्बिनि
प्रशस्तनितम्बवति, हृदयेश्वरं कृष्णमनुसर गच्छ । गमनविलम्बनं गमने कालक्षेपं मा कुरु ।
कीदृशं तम् । अभिसारेऽभिसरणस्थाने गतं प्राप्तम् । कीदृशेऽभिसारे । रतिसुखस्य सारमुत्कृ-
ष्टफलं यत्र तादृशे । पुनः कीदृशम् । मदनस्य कामस्येव मनोहरश्चित्तहरणक्षमो वेशो
यस्य तम् । "आकल्पवेशौ नेपथ्यं" इत्यमरः । "वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके"
इति विश्वः ॥ १ ॥ अभिसारस्थलमेवाह -- <pratika>धीरसमीर इति ।</pratika> यमुनातीरे वने वनमाली
वनमालाशाली कृष्णो वसति । कीदृशे वने । धीरो मन्दः समीरो वायुर्यत्र
तादृशे । अत्र "धीरे" इति पदेन वायोर्मन्दत्वं "यमुनातीर" इत्यनेन शैत्यं "वने" इत्यनेन
सौगन्ध्यमुक्तम् । कीदृशो वनमाली । गोपीनां पीनपयोधरमर्दनेन चञ्चच्चञ्चलं यत्करयुगं तेन
शालते शोभत इति तथा । पाठान्तरे तु गोपीपीनपयोधरपरिसरस्य मांसलस्तनप्रान्तस्य
मर्दनं यत्करयुगं हस्तयुगलं तेन शालितं शोभितं शीलं यस्य तादृशः । "समीरमारुतम-
रुज्जगत्प्राणसमीरणाः" इत्यमरः । "धीरः पण्डितमन्दयोः" इति धरणिः ॥ इति ध्रुवः ॥ यदि
 
[‍^१.] "धरपरिसरमर्दनकर" "मर्दनचञ्चत्कर" इति पाठान्तरम् ।