This page has not been fully proofread.

गीतगोविन्दकाव्यम्
 
[ सर्गः ५
 
गुर्जरीरागेण एकतालीतालेन गीयते ॥ प्र० ॥ ११ ॥
रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
 
न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥ १ ॥
धीरसमीरे यमुनातीरे वसति वने वनमाली ।
गोपीपीनपयोधरैमर्दनचञ्चलकरयुगशाली ॥ ध्रुवम् ॥
 
८०
 
-
 

 
कामपूरकतीर्थे येन यस्मात्सिद्धिराप्ता स तमेव ध्यायञ्जपन् निर्भरपरीरम्भामृतं मोक्षं
वाञ्छतीत्युक्तिलेशः । शार्दूलविक्रीडितं वृत्तम् । अत्र काव्यलिङ्गमलंकारः ॥२॥ सांप्रतं
तमभिमुखमभिसर्तु राधां त्वरयति ॥ तत्र पूर्व ध्रुवपदं व्याक्रियते
- धीरसमीर
इति । इति पदार्थपाठः कुत्रचिदस्ति । गोपीपीनपयोधरमर्दनचपलेन करयुगलेनाढ्य
इत्यर्थः। 'आढ्यः शालिनि विख्यातः'। हे राधे, यमुनातीरे वने । यमुनातीर विषये वने ।
अथवा वेतसवने वनमाली श्रीकृष्णो वसति । किंभूते वने । धीरसमीरे मन्दवायुनि ।
एतेन वायोस्त्रैविध्यमुक्तम् । तस्याश्च स्थानेनोत्कण्ठा जनिता । इति ध्रुवः ॥ र ति सुखेति ।
हे नितम्बिनि, तं वनमालिनमनुसर । गमन विलम्बनमभिसाराय कालातिक्रमं न कुरु,
नितम्बिनी हि बृहन्नितम्बत्वाचलितुं न शक्नोतीति तां त्वरयति । किंभूतम् । अभि-
सारे संकेतस्थाने गतम्। किंभूतेऽभिसारे । रतिसुखसारे रतिसौख्यप्रधाने । किंभूतं तम् ।
मदनवत्कामवन्मनोहरवेशम् । पुनः किंभूतम् । हृदयेशं मनस ईशम् । तव मनस्त-
दधीनमित्यर्थः । अथवा हृदये वर्तमानं तं वनमालिन मिति योज्यम् । किंभूतम् ।
 
-
 
जपन्झटिति फलसिद्धिर्भवतीति ध्वनितम् । तदुक्तं मञ्जूषायाम् – 'गृहे गोष्ठवनारामनदी-
नागसुरालये । अनुग्रहाद्गुरोः सिद्धिः शीघ्रं स्यादुत्तरोत्तरम्' इति । 'मुक्तिः कैवल्यनिर्वा-
णश्रेयोनिःश्रेयसामृतम्' इत्यमरः ॥ २ ॥ किंचित्प्रसादोन्मुखीं राधां वेगेन गमनाय त्वरयि -
तुमाह — रतिसुखेति । गीतस्यास्य गुर्जरीरागः एकतालीताल: । गीतार्थस्तु - हे नितम्बिनि
प्रशस्तनितम्बवति, हृदयेश्वरं कृष्णमनुसर गच्छ । गमनविलम्बनं गमने कालक्षेपं मा कुरु ।
कीदृशं तम् । अभिसारेऽभिसरणस्थाने गतं प्राप्तम् । कीदृशेऽभिसारे । रतिसुखस्य सारमुत्कृ-
ष्टफलं यत्र तादृशे । पुनः कीदृशम् । मदनस्य कामस्येव मनोहरश्चित्तहरणक्षमो वेशो
यस्य तम् । 'आकल्पवेशौ नेपथ्यं' इत्यमरः । 'वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके'
इति विश्वः ॥ १ ॥ अभिसारस्थलमेवाह — धीरसमीर इति । यमुनातीरे वने वनमाली
वनमालाशाली कृष्णो वसति । कीदृशे वने । धीरो मन्दः समीरो वायुर्यत्र
तादृशे । अत्र 'धीरे' इति पदेन वायोर्मन्दत्वं 'यमुनातीर' इत्यनेन शैत्यं 'वने' इत्यनेन
सौगन्ध्यमुक्तम् । कीदृशो वनमाली । गोपीनां पीनपयोधरमर्दनेन चञ्चञ्चञ्चलं यत्करयुगं तेन
शालते शोभत इति तथा । पाठान्तरे तु गोपीपीनपयोधरपरिसरस्य मांसलस्तन प्रान्तस्य
मर्दनं यत्करयुगं हस्तयुगलं तेन शालितं शोभितं शीलं यस्य तादृशः । 'समीरमारुतम-
रुज्जगत्प्राणसमीरणाः' इत्यमरः । 'धीर: पण्डितमन्दयोः' इति धरणिः ॥ इति ध्रुवः ॥ यदि
 

 
१ 'घर परिसरमर्दनकर' 'मर्दनचञ्चत्कर' इति पाठान्तरम् ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri