This page has been fully proofread once and needs a second look.

सर्गः ५] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धय-

स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।

ध्यायंस्त्वामनिशं जपन्नपि तवैवाला[^१]पमन्त्रावलीं
 

भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ २ ॥
 
७९
 

 

 
तव मनसि हरेरनुरागो वसतु ॥ ५ ॥ अत्र वाक्यौचिती सङ्गीतराजे - '- "निःसारताल-

रचितो रागे केदारसंज्ञके । कविनामाङ्कितपदात्पाटैः स्वल्पतरैश्चितः ॥ ततः पद्यं

विलासे सोल्लासते जगतीपतेः । इत्थं हरिसमुदयागरुडपदसंज्ञकः ॥ प्रबन्धः पृथिवी-

भर्त्रा हरिभक्तेन वर्णितः ॥'" इति हरिसमुदयागरुडपदनामा दशमः प्रबन्धः ॥ १० ॥

इदानीं त्वय्येव माधवमनोऽस्तीति तां राधां प्रगुणीकरोति - -<pratika>पूर्वं यत्रेति ।</pratika> हे राधे,

माधवस्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे भूयो बाहुल्येन पुनरपि त्वत्कुचकुम्भ निर्भरप-

रीरम्भामृतं वाञ्छति । लत्कुचयोर्निर्भरो यः परिरम्भः स एवामृतमिव तत्तीर्थादमृतं

जलम् । जलं हि कुम्भेनैव ग्राह्यं भवतीत्युक्तिलेशः । किं कुर्वन् । अनिशमनवरतं त्वां

ध्यायंस्तवैवालापमन्त्रावलीं जपन् । एकान्तध्यानजपाभ्यां हि देवताग्रतो जाग्रतः

पुरः स्फुरत्येव । तस्मिन्निति कस्मिन् । यत्र निकुञ्जमन्मथमहातीर्थे कामतीर्थे पूर्
वं
रतिपतेः कामस्य त्वयोपलक्षितास्त्वय्येव प्रसन्नायां लभ्याः सिद्धयः समं समकालम-

विलम्बेनैव प्राप्ताः । रतिपतेरित्यत्र कामस्याभिलषितस्येति वक्तव्ये रतिग्रहणे तस्यामति -
-
शयितप्रीत्युपादानार्थम् । अथवा रतिपतेः कामात्त्वया सहायभूतया समं सिद्धय

आसादिताः । तदाप्तये पुनः सहायभूतां त्वामेव वाञ्छति । अथ च यत्र निकुञ्जादौ
 
'

 
"
कर्तृकरणयोः'" इति सूत्रेण तृतीया ॥ ५ ॥ १० ॥ पुनः कृष्णस्य राधाविषयिणीमुत्कण्ठां

श्लोकेनाह -- <pratika>पूर्वमिति । </pratika>हे सखि, माधवः कृष्णो भूयस्त्वदीयौ यौ कुम्भाविव कुचौ स्तनौ

तयोर्निर्भरं गाढं यः परीरम्भ आलिङ्गनं तदेवामृतं मोक्षस्तं वाञ्छति । सान्द्रानन्दस-

न्दोहाविर्भावजनकत्वेन तत्कुचकुम्भपरिरम्भस्य मोक्षत्वेन निरूपणम् । वेदान्तिनां भाट्टानां

च मते परमानन्दावाप्तेरेव मोक्षत्वात् । किं कुर्वन् । तस्मिन्नेव निकुञ्जरूपे मन्मथस्य

कामस्याधिष्ठानभूते महातीर्थेऽनिशं निरन्तरं त्वामेवेष्टदेवतां ध्यायन् । तवैवालापास्त

एव मन्त्रास्तेषामेवावलीं पतिङ्क्तिं जपन् । महातीर्थे हेतुगर्भं विशेषणमाह -- <pratika>पूर्वमिति । </pratika>पूर्वं

पुरा यत्र त्वया सह रतिपतेः कामस्य चुम्बनालिङ्गनादिरूपाः सिद्धय आसादिता माधवेन

प्राप्ताः । तथा झटिति वाञ्छितफलप्रदत्वेन महातीर्थं तदपि बोध्यम् । अन्योऽपि

साधको मोक्षममृतं वाञ्छन् यत्र सिद्धिं पूर्वं प्राप्नोति तत्रैव सिद्धनिकुञ्ज।जादिमहातीर्थे

कस्याश्चिद्देवताया मन्त्रावलीं जपति, तामेव देवतां ध्यायति । अत्रावलीपदोपादानान्माला-

मन्त्रत्वमस्य प्रतिपादितम् । तत्प्रयोजनं च सिद्धसुसिद्धत्वादिऋणधनादिशोधनमन्त्रेणेव फल-

सामर्थ्यं प्रतिपादितम् । तदुक्तं योगरत्नावल्याम् -- स्वप्ने पदे स्त्रिया दत्ते मालामन्त्रे

तथैव च । वैदिकेषु च सर्वेषु सिद्धादीन्नैव शोधयेत् ॥'" इति । निकुञ्जादिमहातीर्थे मन्त्रादि
 

 
[‍^
१. '] "नाममन्त्रावलीम्'" इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri