This page has not been fully proofread.

सर्गः ५] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम्
पूर्वं यत्र समं त्वया रतिपतेरासादिताः सिद्धय-
स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं
 
भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ २ ॥
 
७९
 

 
तव मनसि हरेरनुरागो वसतु ॥ ५ ॥ अत्र वाक्यौचिती सङ्गीतराजे - 'निःसारताल-
रचितो रागे केदारसंज्ञके । कविनामाङ्कितपदात्पाटैः स्वल्पतरैश्चितः ॥ ततः पद्यं
विलासे सोल्लासते जगतीपतेः । इत्थं हरिसमुदयागरुडपदसंज्ञकः ॥ प्रबन्धः पृथिवी-
भर्त्रा हरिभक्तेन वर्णितः ॥' इति हरिसमुदयागरुडपदनामा दशमः प्रबन्धः ॥ १० ॥
इदानीं त्वय्येव माधवमनोऽस्तीति तां राधां प्रगुणीकरोति - पूर्व यत्रेति । हे राधे,
माधवस्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे भूयो बाहुल्येन पुनरपि त्वत्कुचकुम्भ निर्भरप-
रीरम्भामृतं वाञ्छति । लत्कुचयोर्निर्भरो यः परिरम्भः स एवामृतमिव तत्तीर्थादमृतं
जलम् । जलं हि कुम्भेनैव ग्राह्यं भवतीत्युक्तिलेशः । किं कुर्वन् । अनिशमनवरतं त्वां
ध्यायंस्तवैवालापमन्त्रावलीं जपन् । एकान्तध्यानजपाभ्यां हि देवताग्रतो जाग्रतः
पुरः स्फुरत्येव । तस्मिन्निति कस्मिन् । यत्र निकुञ्जमन्मथमहातीर्थे कामतीर्थे पूर्व
रतिपतेः कामस्य त्वयोपलक्षितास्त्वय्येव प्रसन्नायां लभ्याः सिद्धयः समं समकालम-
विलम्बेनैव प्राप्ताः । रतिपतेरित्यत्र कामस्याभिलषितस्येति वक्तव्ये रतिग्रहणे तस्यामति -
शयितप्रीत्युपादानार्थम् । अथवा रतिपतेः कामात्त्वया सहायभूतया समं सिद्धय
आसादिताः । तदाप्तये पुनः सहायभूतां त्वामेव वाञ्छति । अथ च यत्र निकुञ्जादौ
 
'कर्तृकरणयोः' इति सूत्रेण तृतीया ॥ ५ ॥ १० ॥ पुनः कृष्णस्य राधाविषयिणीमुत्कण्ठां
श्लोकेनाह – पूर्वमिति । हे सखि, माधवः कृष्णो भूयस्त्वदीयौ यौ कुम्भाविव कुचौ स्तनौ
तयोर्निर्भरं गाढं यः परीरम्भ आलिङ्गनं तदेवामृतं मोक्षस्तं वाञ्छति । सान्द्रानन्दस-
न्दोहाविर्भावजनकत्वेन तत्कुचकुम्भपरिरम्भस्य मोक्षत्वेन निरूपणम् । वेदान्तिनां भाट्टानां
च मते परमानन्दावाप्तेरेव मोक्षत्वात् । किं कुर्वन् । तस्मिन्नेव निकुञ्जरूपे मन्मथस्य
कामस्याधिष्ठानभूते महातीर्थेऽनिशं निरन्तरं त्वामेवेष्टदेवतां ध्यायन् । तवैवालापास्त
एव मन्त्रास्तेषामेवावलीं पति जपन् । महातीर्थे हेतुगर्भं विशेषणमाह — पूर्वमिति । पूर्वं
पुरा यत्र त्वया सह रतिपतेः कामस्य चुम्बनालिङ्गनादिरूपाः सिद्धय आसादिता माधवेन
प्राप्ताः । तथा झटिति वाञ्छितफलप्रदत्वेन महातीर्थं तदपि बोध्यम् । अन्योऽपि
साधको मोक्षममृतं वाञ्छन् यत्र सिद्धिं पूर्व प्राप्नोति तत्रैव सिद्धनिकुञ्ज।दिमहातीर्थे
कस्याश्चिद्देवताया मन्त्रावलीं जपति, तामेव देवतां ध्यायति । अत्रावलीपदोपादानान्माला-
मन्त्रत्वमस्य प्रतिपादितम् । तत्प्रयोजनं च सिद्धसुसिद्धत्वादिऋणधनादिशोधनमन्त्रेणेव फल-
सामर्थ्य प्रतिपादितम् । तदुक्तं योगरत्नावल्याम् – स्वप्ने पदे स्त्रिया दत्ते मालामन्त्रे
तथैव च । वैदिकेषु च सर्वेषु सिद्धादीन्नैव शोधयेत् ॥' इति । निकुञ्जादिमहातीर्थे मन्त्रादि
 
१. 'नाममन्त्रावलीम्' इति पाठः ।
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri