2022-10-31 05:47:23 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
गीतगोविन्दकाव्यम्
[ सर्ग: ५
पतति मदनविशिखे विलपति विकलतरोऽति । तव वि० ॥ २ ॥
ध्वनति मधुपसमूहे श्रवणमपि
०
मनसि कलितविरहे निशि निशि रुजमुपयाति । तव वि० ॥ ३ ॥
वसति विपिनविताने त्यजति ललितधाम ।
लुठति धरणिशयने बहु विलपति तव नाम । तव वि० ॥ ४ ॥
भणति कविजयदेवे विरहविलसितेन ।
मनसि रभसविभवे हरिरुदयतु सुकृतेन । तव वि० ॥ ५ ॥
०
कुसुमनिकरे स्फुटति सति विकसति सति ॥१॥ अपि च ।
हिमरश्मौ दहति सति मरणमनुकरोति मृतकल्पो भवति । तत एवं मदनविशिखे पत
सति विकलतरोऽतिशयेन विकलः सन्नतीव विलपति ॥ २॥ अपि च । <pratika>ध्वनतीति ।
मधुपसमूहे ध्वनति सति श्रवणमपिदधाति आच्छादयति । निशि निशि प्रतिरात्रौ मनसि
कलित
विपिनविताने वनविस्तारे चण्डविषकल्पे वने वसति संतिष्ठते । त्वद्विरहेण ललितं
मनोहरमपि धाम त्यजति । पुनः किं करोति । धरणिशयने तव नाम कृत्वा परिदेवनं
करोति ॥ ४ ॥ अपि च । <pratika>भणतीति ।</pratika> कविजयदेवे भणति सति विरहविलसितेन
वियोगविलासेन रभसविभव उत्साह
।
बाणैस्तत्संनिहितेन कामेन विरहिणां हृदयं विदारणीयमिति भावः ॥ १ ॥ किं च । <pratika>दह-
तीति ।
यादृशी मूर्च्छादिरूपा चेष्टा तां स्वीकरोति । अथ च मदनविशिखे कामबाणे पतति सति
विकलतरोऽतिविह्वलतरो विलपत्यतिशयेन विलापं करोति ॥ २ ॥ किंच । <pratika>ध्वनतीति ।
मधुपसमूहे भ्रमरसमूहे ध्वनति गुञ्जति सति श्रवणं श्रोत्रं हस्ताभ्यामपिदधाति मुद्रयति ।
अथ च निशि निशि प्रतिरात्रौ चित्ते रुजं पीडामुपयाति प्राप्नोति । कीदृशे मनसि ।
कलित उद्भूतो विरहो यत्र तादृशे ॥ ३ ॥ किंच । <pratika>वसतीति ।</pratika> स विपिनविताने वनविस्तारे
वसति तिष्ठति । ललितं मनोहरं धाम मन्दिरं त्यजति ।
स्थाने जन्मप्रभावयोः
नाम
॥ ४ ॥ <pratika>भणतीति ।</pratika> श्रीजयदेवकवौ भणति कथयति ( सति ) यत्सुकृतं पुण्यं जातं
तेन मनसि । अर्थाद्गायतां शृण्वतां च हरिः कृष्ण उदयत्वा
रभसस्य कृष्ण कीर्तनविषयोत्साहस्य विभवः प्राचुर्यं यत्र तादृशे हरिविरहविलसितेन
विलासेनोपलक्षिते ।
विश्लेषः, अपि तु लीलया तस्य विरहविलासमात्रमिति भावः । विरहिविलसितेत्यत्र
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri