This page has not been fully proofread.

७८
 
गीतगोविन्दकाव्यम्
 
[ सर्ग: ५
 
दहति शिशिरमयूखे मरणमनुकरोति ।
 
पतति मदनविशिखे विलपति विकलतरोऽति । तव वि० ॥ २ ॥
ध्वनति मधुपसमूहे श्रवणमपिद्धाति ।
 

 
मनसि कलितविरहे निशि निशि रुजमुपयाति । तव वि० ॥ ३ ॥
वसति विपिनविताने त्यजति ललितधाम ।
 
लुठति धरणिशयने बहु विलपति तव नाम । तव वि० ॥ ४ ॥
भणति कविजयदेवे विरहविलसितेन ।
 
मनसि रभसविभवे हरिरुदयतु सुकृतेन । तव वि० ॥ ५ ॥
 

 
कुसुमनिकरे स्फुटति सति विकसति सति ॥१॥ अपि च । दहतीति । शिशिरमयूखे
हिमरश्मौ दहति सति मरणमनुकरोति मृतकल्पो भवति । तत एवं मदनविशिखे पतवि
सति विकलतरोऽतिशयेन विकलः सन्नतीव विलपति ॥ २॥ अपि च । ध्वनतीति ।
मधुपसमूहे ध्वनति सति श्रवणमपिदधाति आच्छादयति । निशि निशि प्रतिरात्रौ मनसि
कलित विरहे सति झटिति रुजं पीडामुपयाति प्राप्नोति ॥ ३ ॥ अपि च । वसतीति ।
विपिनविताने वनविस्तारे चण्डविषकल्पे वने वसति संतिष्ठते । वद्विरहेण ललितं
मनोहरमपि धाम त्यजति । पुनः किं करोति । धरणिशयने तव नाम कृत्वा परिदेवनं
करोति ॥ ४ ॥ अपि च । भणतीति । कविजयदेवे भणति सति विरहविलसितेन
वियोगविलासेन रभसविभव उत्साह संपन्ने मनसि । अर्थात्तव सुकृतेन हरिरुदयं प्राप्नोतु
 

 
बाणैस्तत्संनिहितेन कामेन विरहिणां हृदयं विदारणीयमिति भावः ॥ १ ॥ किं च । दह-
तीति । शिशिरमयूखे हिमकिरणे दहति सति मरणं मरणावस्थामनुकरोति । मरणावस्थायां
यादृशी मूर्च्छादिरूपा चेष्टा तां स्वीकरोति । अथ च मदनविशिखे कामबाणे पतति सति
विकलतरोऽतिविह्वलतरो विलपत्यतिशयेन विलापं करोति ॥ २ ॥ किंच । ध्वनतीति ।
मधुपसमूहे भ्रमरसमूहे ध्वनति गुञ्जति सति श्रवणं श्रोत्रं हस्ताभ्यामपिदधाति मुद्रयति ।
अथ च निशि निशि प्रतिरात्रौ चित्ते रुजं पीडामुपयाति प्राप्नोति । कीदृशे मनसि ।
कलित उद्भूतो विरहो यत्र तादृशे ॥ ३ ॥ किंच । वसतीति । स विपिनविताने वनविस्तारे
वसति तिष्ठति । ललितं मनोहरं धाम मन्दिरं त्यजति । 'धाम देहे गृहे रश्मौ
स्थाने जन्मप्रभावयोः' इति विश्वः । किंच स धरणीशयने भूशय्यायां लुठति । तव
नाम 'हे प्राणेश्वरि, हे प्रिये, हे राधे' इत्येव बहु वारं वारं विलपति विशेषेण जल्पति ।
॥ ४ ॥ भणतीति । श्रीजयदेवकवौ भणति कथयति ( सति ) यत्सुकृतं पुण्यं जातं
तेन मनसि । अर्थाद्गायतां शृण्वतां च हरिः कृष्ण उदयत्वा विर्भवतु । कीदृशे ममसि ।
रभसस्य कृष्ण कीर्तनविषयोत्साहस्य विभवः प्राचुर्यं यत्र तादृशे हरिविरहविलसितेन
विलासेनोपलक्षिते । बस्तुगत्या
तस्य कालान्तर्यामिरूपतया न केनापि सह
विश्लेषः, अपि तु लीलया तस्य विरहविलासमात्रमिति भावः । विरहिविलसितेत्यत्र
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri