This page has been fully proofread once and needs a second look.

शिरस्याघेधेहि मे पादमित्यर्थं च करं हृदि ।

समायान्तं न तद्दातुं शशाकेश्वरतां स्मरन् ॥

 
अन्यदन्वेषमाणोऽपि न लेभे तादृशं पदम् ।

संस्थाप्य पुस्तकं स्नातुं जगामान्यद्विचिन्तयन् ॥

 
तावज्जयदेवरूपेण कृष्णस्तत्र समागतः ।

पद्मावतीमुवाचाथ पुस्तकं देहि मे प्रिये ॥

 
पद्मावती समानीय ददौ तत्पुस्तकं द्रुतम् ।

गृहीत्वा पुस्तकं तत्र जयदेवेन यत्कृतम् ॥

 
मनसा तल्लिलेखासौ जयदेवस्वरूपधृक् ।

पुनरुत्थाय स स्नातुं जगामातित्वरान्वितः ॥

 
कंचित्कालमतीत्याथ जयदेवः समागतः ।

देवानभ्यर्च्य भक्त्या च गृहीत्वा पुस्तकं पुनः ॥

 
मनसा कल्पितं पद्यं लिखितुं तु समुद्यतः ।

ददर्श तत्र तत्पद्यं नालिखद्यदयं पुरा ॥

 
अन्येन लिखितं ज्ञात्वा प्राह पद्मावतीं प्रियाम् ।

अये केनेदमालेखि तं जानासि शुचिस्मिते ॥

 
नाहमेतत्पदं पूर्वमलिखं नाक्षरं मम ।

इति श्रुत्वा वचस्तस्य प्राह पद्मावती प्रिया ॥

 
नाथ कोऽयं भ्रमस्तेऽद्य जयदेवं वचोऽब्रवीत् ।

स्नातुं गतस्तु तत्काले पुनरागत्य सत्वरम् ॥

 
गृहीत्वा पुस्तकं मत्तो लिखित्वा त्वं पुनर्गतः ।

स्नातुमेवं तु जानामि कोऽन्यस्त्वत्तोत्र लेखकः ॥

 
इति श्रुत्वा प्रियावाक्यं जयदेवोऽतिविस्मितः ।

अहर्निशं तमेवार्थं चिन्तयन्नालभत्सुखम् ॥

 
तस्मिन्दिने रात्रिशेषे स्वप्ने श्रीपुरुषोत्तमः ।

उवाच जयदेवं तु स स्वप्ने मुमुदे भृशम् ।

स्वपत्नीं सुभगां मेने पुरुषोत्तमदर्शनात् ॥

 
तदारभ्यातिभक्त्या वै पत्न्या सह हरिं भजन् ।

गायन्वै गीतगोविन्दं तोषयामास केशवम् ॥

 
निर्माय गीतगोविन्दपुस्तकं पुरुषोत्तमे ।

निवेद्य कृतकृत्योऽभूज्जयदेवो महामनाः ॥
 

 
इति श्रीभगवद्भक्तिमाहात्म्ये जयदेवचरितं नामैकोनचत्वारिंशः सर्गः ॥
 

 
पुनर्वक्ष्यामि तस्यैव चरितं परमाद्भुतम् ।

जयदेवस्य विप्रस्य गीतगोविन्दसंभवम् ॥

 
एकदा गीतगोविन्दं श्रुत्वा राजातिहर्षितः ।

निजाग्रे स्थापयित्वा तत्काव्यं तादृशमेव च ॥
 
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri