This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
[भगवत्प्रपदनविरोधि विपरीतज्ञान-विपरीतवर्तनयोः क्षमाप्रार्थना]
अनादिकालप्रवृत्तं विपरीतज्ञानम् आत्मविषयम्
कृत्स्नजगद्विषयं च विपरीतवृत्तं च अशेषविषयम् ;
अद्याऽपि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ॥ १२ ।॥
 
इस
 
श्रु. भा. अथ मोक्षविरोधि पुण्यपापरूपम् क्षामयति- अनादि इति । आत्मनो
जगतश्च स्वातन्त्र्यधीः, देवतान्तरशेषत्वधीः भगवच्छेषवस्तुनि, स्वशेषत्वधीश्च विपरीतज्ञानम् ।
पुण्यञ्च स्वतन्त्रात्मधीमूलत्वात् भ्रान्तिमूलम् । भगवद्भागवतदेवतान्तरभजनरूपं स्वार्थं
स्वपुत्राद्यर्थञ्च यत्पुण्यं तत् - अशेषविषयम् विपरीत वृत्तम् इत्युच्यते । आचार्यसेवादिना
शास्त्रजन्यज्ञाने सम्पन्नेऽपि वासनावशात् अनुवर्तमानम् इत्यभिप्रायेणोक्तम् अद्यापि
वर्तमानम् इति ।
 
-
 
67
 
GAYAVAVABRÜABAVAGRÜNBRÜNÜRÜNÜRÜNÜRÜNÜRÜNÜRVAURUA
 
र.र. - एवं निषिद्धक्षमा प्रार्थिता । अथ सहेतुककाम्यक्षमा प्रार्थ्यते अनादिकाल
इति । क्षुद्रपुरुषार्थकामनाया विपरीतज्ञानसापेक्षतया अपचाराणामिव शास्त्रार्थज्ञानपूर्वककाम्यानामपि
मात्रया भ्रान्ति हेतुत्वं व्यञ्जयितुमिह विशेषतो विपरीतज्ञानस्य सहोक्तिः । यथावस्थित-
विषयविरुद्धाकारावगाहिज्ञानमिह विपरीतज्ञानम् । तच्चात्र 'योऽन्यथासन्तमात्मानम् अन्यथा
प्रतिपद्यते' (म.भा.उद्यो.४२-३५) इत्यादिभिरुक्तः स्वात्मनो जगतश्च स्वनिष्ठत्व- स्वतन्त्रत्व-शेषत्व-
भगवदन्यनिष्ठत्वादिभ्रम इत्यभिप्रायेणाह आत्मविषयं कृत्स्त्रजगद्विषयं चेति ।
 
-
 
वृत्तशब्दस्य शास्त्रीये प्रसिद्धिप्रकर्षमुपजीव्य विपरीतवृत्तम् इति बन्धकं
काम्यकर्मोच्यते; अन्यथा पूर्वोक्तेन पुनरुक्तिप्रसङ्गात् । काम्यस्य च विपरीतवृत्तत्वं
सात्त्विकत्यागसमदर्शित्वादिविशिष्टहिततमधर्मविपरीतत्वात् । विपरीतवृत्तेऽपि स्वविषयतया
पुत्रादिविषयतया च ग्वैविध्यं दर्शयति अशेषविषयम् इति । अद्यापि वर्तमानं
 
वर्तिष्यमाणं च । सद्गुरूपदेशादिभिः परोक्षसम्यक्ज्ञाने निष्पन्नेऽपि बाधितानुवृत्त्यादि-
नयाद्वासनारागादिभिः अनुवर्तमानमित्यर्थः । अत्र चकारेण पूर्वकृतविपरीतवृत्तसमुच्चयः ।
अद्यापि इत्यनेन च अनादिविपरीतवृत्तसन्ततिः सूच्यते । अत्रापि सर्वशब्दः पूर्ववत्
कार्त्स्यपरः । अशेषत इति चानुसन्धेयम् ।
 
1. पुण्यरूपंपापम् - इ । 2. विषयम् - इ ।
5. द्वैविध्यं - अ ।
 
3. उच्यते - इ । 4. हेतुकत्वम् - अ ।