2023-04-07 05:36:03 by ambuda-bot
This page has not been fully proofread.
66
आरब्धकार्यान्-अनारब्धकार्यान्;
कृतान्-क्रियमाणान्-करिष्यमाणांश्च - सर्वान् अशेषतः क्षमस्व ॥ ११ ॥
शरणागतिगद्यम् -
श्रु. भा. - सर्वशब्द: अपराधव्यक्तिकार्त्स्यपरः । कर्मणां वैदिककर्मानर्हतापादनशक्तिः,
प्रत्यवायकरत्वशक्तिः वासनाजनकत्वशक्तिश्चास्ति । तत्र अन्यतमशक्तिमात्रं क्षमाविषयो
माभूदिति अशेषत इत्युक्तम् ।
GRUAURUAURUAURYAGRGAÜDÜRÜRUPURGAURUPURÜPÜRGAÜRÜS
र.र. आरब्धकार्यान् - जात्यायुर्भोगरूपविपाकसंज्ञफलप्रदाने प्रवृत्तान् । यद्यपि,
'अनारब्धकार्य एव तु पूर्वे तदवधेः' (ब्र.सू.४-१-१५) इति उपासने सूत्रितम्, तथाऽपि
'साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी' (सा.तं.) इति प्रपत्तौ विशेषवचनात्
अत्रारब्धकार्योपादानम् । अर्थितार्थप्रदस्य शरण्यस्य प्रपत्तॄणामार्तितारतम्यानुसारेण
यथाप्रार्थितफलप्रदानात् तदिष्ट देहा' धनुवृत्तौ न प्रत्यक्षादिविरोधः । अनारब्धकार्यान्
प्रारब्धकार्यकर्मनिरुद्धावसरतया अनुपक्रान्तफलान् । द्विविधानपि कृतान् इत्यवच्छिनत्ति ।
क्रियमाणान् - आनुकूल्यसङ्कल्पादिमत्त्वेऽपि देशकालादिवैगुण्यात् पूर्वनियुक्त-
दूरस्थदुर्निवारभृत्त्यादिमुखेन वा उपक्रान्तान् अपरिसमाप्तान् । करिष्यमाणान्
तद्वदनुबन्धादिमुखेनागत्या प्रमादाद्वा संपतिष्यतः । बुद्धिपूर्वोत्तराघानां पश्चादेव प्रायश्चित्त
विधानात् । तेषामपि अत्र सङ्ग्रहे तु यथार्हं प्रायश्चित्तप्रेरणं क्षमाफलं ग्राह्यम् ।
1. भोगा- अ ।
2. इत्यादि - अ ।
-
सर्वान् अशेषत इति व्यक्तिशक्तिकार्न्यपरम् । सन्ति हि पापानां बह्वयः शक्तयः
तत्त्वतिरोधायकत्वम्, प्रत्यवायजनकत्वम्, कर्मान्तरानर्हतापादकत्वम्, सजातीय-
पापारम्भरुचिजनकत्वं चेति । एतास्वन्तिमा वासनेत्युच्यते । सा च प्रत्युत्तरे
व्यक्तमनुवदिष्यते । पापशक्तिश्च निग्रहसंज्ञः परमपुरुषबुद्धिविशेष एवेति क्षमस्व
इत्यनेन व्यज्यते । निग्रहनिवृत्तिरूपो हि प्रसादविशेष इह क्षमा । अत्र भागवतापचारेषु
तद्विदितेषु तत्प्रसादनमुखेन भगवतः प्रसादनम्, 'मया त्वं परुषाण्युक्तस्तञ्च त्वं क्षन्तुमर्हसि'
(रा. कि. ३६ - २०) ' इति न्यायात् । तदविदितेषु तु अव्यवधानेन, रहस्यप्रायश्चित्तन्यायात् ।