This page has been fully proofread once and needs a second look.

भगवदपचार- भागवतापचार-

असह्यापचाररूप-नानाविधानन्तापचारान्;
 
-
 

श्रु.भा. - भगवदपचारः - शिशुपालादिकृतः । भागवतापचारः तु भागवत- विषये
 
अर्थादिनिमित्तान्तरेण कृतः । भागवतापचारः - भगवदपचारः । भगवदपचारो
- भागवतापचार इति । भागवतभक्तविषयापचार: - असह्यापचारः, आचार्यविषयापराधो
वा । भागवते अभागवतत्वनिमित्ता'- पराधो[^1] वा । अर्चावतारविग्रहस्य अवैलक्षण्य-
प्रतिपत्तिर्वा । ऐकैक- कोट्यवान्तरभिदापरो नानाविधशब्दः ।
 

 
-
 
1
 
1. पचारो - इ । 2. वृत्तिभेदै - अ ।
 
GAVAVAVAKRÜABRÜAÜRÜNÜRÜNÜRÜAGAYAGRÜDÜRÜPÜRÜPÜRÜT
 
र.र.

र.र.-
यद्यपि अकृत्यकरणादेः अपि आज्ञातिलङ्घनरूपतया भगवदपचार- त्वम्,
तच्चात्र अपचारान् इति विशेष्यनिर्देशेन व्यज्यते; तथाऽपि शिशुपाला दीनामिव अव्यवधानेन
भगवत्परिवादादिकमिह भगवदपचारशब्दोक्तम् । अकृत्यकरणशब्देन तु स्वस्ववर्णाश्रमादि-
निषिद्धानुष्ठानमात्रम् । कृत्या- करणशब्देन स्ववर्णादिनियतधर्मस्य प्राप्तकाले शक्तेन
अननुष्ठानम् । भगवदपचाराश्च द्वात्रिंशदपचारादिप्रकरणेषु द्रष्टव्याः । भगवंदीयेषु

वस्तुषु स्वीयत्वबुद्धिः, अर्चावतारपर्यन्तेष्ववतारेषु प्राकृतत्वबुद्धिः इत्याद- योऽपि
भगवदपचाराः । त्वदपचारेति वक्तव्येऽप्यत्र भगवदपचारशब्दस्त- त्तत्प्रमाणोपात्त-
प्रकारसूचनार्थः ।
 
-
 

अयथाशास्त्रमर्थाद्युपाधिभिर्भागवतविरुद्ध आचरणमिह भागवतापचारः । इमौ
विपर्यासेन केचित् वर्णयन्ति । एतयोरेवापचारवर्गयोः 'न क्षमामि' (वरा.पु.)
इत्यादिभिर्विशेषिताः केचित् पूर्वोक्तन्यायात् असह्यापचारा इति विभज्यन्ते । ते च
'विद्याचोरो गुरुद्रोही', 'एकाक्षरप्रदातारम्', (अत्रि स्मृ. १-१०) 'यः शूद्रं भगवद्भक्तम्',
(इ.स.२६-२६) 'मयि द्वेषानुबन्धोऽभूत् संस्तुतावुद्यते तव (वि.पु. १-२०, २१) इत्यादिषु
द्रष्टव्याः । एवं निर्निबन्धन भगवद्भागवतद्वेषावज्ञापरिहासादयश्च यथालोकं असह्यापचारा
इत्यनु शिष्यन्ते । एते पञ्चापि प्रत्येकमवान्तरोपाधिभिः नानाविधाः तत्तद्विधास्वपि

अवान्तर' व्यक्तिभेदे[^2] रनन्ताः ।
 
,
 

 
 
 
 
[^1]. पचारो - इ।
[^2]. वृत्तिभेदै - अ ।