This page has been fully proofread once and needs a second look.

64
 
शरणागतिगद्यम्
 
[भगवत्प्रपदन-प्रसादनविरोधि - -विविधापचार - -क्षमायाचना]

मनोवाक्कायैः अनादिकालप्रवृत्तानन्त-

अकृत्यकरण - -कृत्याकरण-
-
 

श्रु. भा. - अथोत्तरखण्डं विवृण्वन् इष्टप्राप्तेरनिष्टनिवृत्तिपूर्वकत्वरूपार्थ- क्रमात् प्रथमं
नमश्शब्दार्थमाह मन इत्यादिना । अनादिकालप्रवृत्तत्त्वमान- न्त्यहेतुः । प्रथमम् अनन्तशब्दः
सामान्यापराधविशेषणम् । सामान्यापराध- मुक्त्वा विशेषापराधमाह - भगवत् इति ।
 
KAUPURUAURUAURUAURUYAKRÜAURUAUDGAURYAGAGAWRYAGTUT
 

र.र. - अथोत्तरखण्डस्थस्यापि सविशेषण नारायण शब्दस्य पूर्वमेव व्याख्या तत्वात्,
अवशिष्टयोश्च चतुर्थीनमसोः पाठक्रमादर्थक्रमस्य बलीयस्त्वात् प्रथमं मनोवाक्कायैः
इत्यादिभिस्त्रिभिर्वाक्यैरिष्टप्राप्तेः पूर्वभाविनीं ममकार निवृत्तिवाचि नमःशब्दविवक्षितां
सर्वानिष्टनिवृत्तिं प्रार्थयते । तत्र सर्वस्य चानिष्टस्येष्टविघातस्य च कर्ममूलत्वात् तन्निवृत्तिः
पूर्वमभ्यर्थ्यते । मानसादि भेदेन त्रिविधः पापराशिः, तद्विपाकश्च मन्वादिभिर्विभक्त इति
ज्ञापनाय करणत्रयोपादानम् ।
 

अकृत्यकरणादेः अहेतुकत्वमन्योन्याश्रयादिकं च परिहर्तुमाह - अनादि कालप्रवृत्त
इति । हितप्रवृत्तियोग्यैः करणैरेतावन्तं कालमहिते प्रवृत्तोऽ- स्मीति निर्वेदश्चात्र व्यञ्जितः ।
'यद्ब्रह्मकल्प' (वै. स्त.६२) इत्यादिप्रक्रियया अनादिकालप्रवृत्तम् अत एव अनन्तम् ।
प्रथमोऽनन्तशब्दः अकृत्यकरण-कृत्याकरणरूपसामान्यापचारयोः अन्वेतव्यः । द्वितीयस्तु
भगवदपचा- रादौ । अकृत्यकरणादिपञ्चकमुत्तरोत्तरं क्रूरतरम् । यद्यपि केषाञ्चित्

कृत्यानामकरणम् अकृत्यकरणात्मकम्, तथाऽपि शरणागतरक्षणादि कृत्याकरणं
महत्तरपातककोटौ स्मर्यत इति ज्ञापयितुमकृत्य करणा- दुत्तरं[^1] कृत्याकरणोक्तिः ।
अकृत्यकरण ±अन्तर्गतस्यापि'[^2] भगवदपचारादेः 'ब्राह्मणपरिव्राजक' न्यायेन प्रकृष्टत्वज्ञापनाय

पृथगभिधानम् ।
 

 
 
[^
1]. करणानन्तरम् - अ ।
[^
2]. अन्तर्भूतस्यापि अ ।
 
- अ ।