This page has been fully proofread once and needs a second look.

व्याख्याद्वयोपेतम्
 
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।
 

पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायाऽर्हसि देव ! सोढुम् ॥ १० ॥ (भ.गी.११-४४)
 

श्रु. भा.
 
-प्रपत्तिं विवृणोति तस्मात् इति । ईशमीड्यम् - 'न तस्येशे कश्चन,

तस्य नाम महद्यशः' (महाना.उ.१-१-२) इतिवत् । पित्रादयस्तत्तत्सम्बन्धाद्धि क्षमन्ते ।
अतः सर्वविधसम्बन्धात् त्वया क्षन्तव्यमित्यर्थः । प्रार्थनापर्यन्तमहा- विश्वासः प्रपत्तिः ।
महाविश्वासपूर्विका प्रार्थना वा ।
 
-
 
GAGAVRGAVRGAVRÜAGRUAUDYAÜDÜDÜRÜPÜRÜZURUPURUAUZUA
 

र.र. - तस्मात् 'तवैव[^1] सर्वविधबन्धुत्वात्, प्रभावतः कारुण्यादिगुणैश्च

सर्वाधिकत्वात्, त्वद्विषयापराधस्य पित्रादिसर्वविषयापराधरूपत्वात् सर्वविषयापरांधानां
त्वदाज्ञातिलङ्घनरूपत्वेन त्वदपराधत्वाच्चेति भावः ।
 
63
 

प्रणम्य इत्यादिकं प्रपद्ये इत्यस्य विवरणम् । प्रकृष्टः प्रह्वीभावश्चात्र प्रकरणात्
प्रपत्तिरूपः । स च पूर्वकृत एव फलविशेषप्रार्थनार्थमिहानूद्यते । कायप्रणिधानम् - अत्र
स्वरक्षणार्थस्वव्यापारान्तरनिवृत्तिव्यञ्जकमात्रम् । प्रणम्य प्रसादये - प्रपदनरूपं प्रसादनं
अनुतिष्ठामि । भक्तिवत् प्रपत्तिरपि प्रसादनविशेषः । मदिष्टविघातानिष्टप्राप्तिहेतु-
भूतमत्कृतापराधजनिता- प्रीतिरूपकालुष्यरहितं करोमीत्यर्थः । त्वाम् - स्वतः सर्वभूतानां
सुहृदं मदपराधात् कलुषितबुद्धिम् । अहम् - अकिञ्चनोऽनन्यगतिः त्वत्पत्न्या दत्तवरः
त्यक्तत्वदितरसाध्यसाधनश्च । ईशम् - सापराधनिग्रहादिसमर्थम् । ईड्यम् - क्षमादिभिः
स्तुत्यम् । 'न तस्येशे कश्चन तस्य नाम महद्यशः' (महाना.उ.१-१-२) इति श्रुत्युक्तमनेन
पदद्वयेन दर्शितम् । क्षुद्रोऽपि जन्तुः संबन्धविशेषात् अपराधं सहते, किं पुनस्त्वमित्यभिप्रायेण
पित्रादिदृष्टान्तः ।
 
1. तवैवं - अ ।
 

प्रियः प्रियाय - मत्प्रीतिविषयस्त्वं त्वत्प्रीतिविषयाय मह्यम् । 'प्रियो हि

ज्ञानिनोऽत्यर्थं अहं स च मम प्रियः' (भ.गी. ७-१७) इति हि स्वयमेवात्थ । अर्हसि देव
सोढुम् इति वक्ष्यमाणसङ्ग्रहः । संसारमोचनमपि ते लीलैवेति देवशब्दाभि [^2]प्राय:
[^2] । एतावदन्तं पूर्वखण्डविवरणमिति केचित् ।
 

 
 
 
 
[^1]. तवैवं - अ ।
[^]
2. प्रेयः
 
-आ।