This page has been fully proofread once and needs a second look.

62
 
शरणागतिगद्यम् -
 
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ८ ।॥

पिताऽसि लोकस्य चराचरस्य
 

त्वमस्य पूज्यश्च गुरुर्गरीयान् ।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
 

लोकत्रयेऽप्यप्रतिमप्रभाव! ॥ ९ ॥ (भ.गी. १९-४८)
 

श्रु. भा. - पित्रादिकार्यरक्षणस्य अस्मिन्नेव पुष्कलत्वादयमेव बन्धुः, न तु पित्रादय
इत्यभिप्रायेण त्वमेव इत्यावृत्तिः । न परं मम सर्वलोकस्य चेत्याह - पितासि इति
रक्षकत्वे समाभ्यधिकराहित्यमुक्तम् । सौलभ्ये वा । अप्रतिमप्रभाव इति - परत्वस्योक्तिः ।
 
"
 
GRUAGRUAVRUPURUAURUAURUPURUPURYAGRÜNÜDÜRÜBÜNÜDÜR
 

र.र. - त्वयि समुचितमित्यभिप्रायेण प्रत्येकं त्वमेव इति साधारणावृत्तिः । मातापित्रादयो
हि तत्प्रयुक्तास्तत्सहकृताश्च तदभिमतयत्किञ्चित्करणेनोप- कुर्युः, अयं च अनन्यप्रयोज्यो
निरपेक्षश्च स्वेच्छयैव सर्वप्रकारेणोपकरोति ।
 
-
 

माता - प्रलयदशायामुदरे स्थापयित्वा प्रसवनात् । प्रियप्रवर्तकत्वादिभिश्च पिता;
'अहं बीजप्रदः पिता' (भ.गी. १४-४) इति ह्याह । हितप्रवर्तकञ्च बन्धुः - संबन्धान्तरेणाप्यहित-
निवर्तनार्हः । गुरु: - 'गुशब्दः' इत्याद्युक्तान्धकार- निरोधित्वात्; तत्र च असौ गुरुशरीरकः,
आदिगुरुश्च । विद्या - उपायभूत- विद्याप्रवर्तकत्वात्, तत्फलपदत्वाञ्च, अकिञ्चनानाम्
उपासनरूपविद्यायाः स्थाने निवेशाद्वा । द्रविणम्- 'अमृतं साधनं साध्यं यं पश्यन्ति
मनीषिणः' (पाञ्चरात्रम्) इत्युक्तात् साधनत्वात्, साध्यत्वाच । त्वमेव सर्वम् इति

उक्तानुक्तसर्वकार्त्स्न्यपरम् । मम - तत्त्वविदोऽकिञ्चनस्य त्यक्तान्य साध्यसाधनस्य त्वयि
न्यस्तभरस्य च । देवदेव इति सर्वप्रकारोत्कर्षपरम् ।
 

एवं स्वविषयेऽनुसंहितस्य सर्वविधबन्धुत्वस्य सर्वविषयत्वेन निरुपाधिकत्वं

सूचयति - पिताऽसि इति । लोकस्य - हिरण्यगर्भादिजन्तुजातस्य । पूज्यश्च

-
पितृत्वगुरुत्वादिभिः सर्वकर्माराध्यत्वश्रुतेश्च समाराध्यः । 'गरीयान् ब्रह्मदः पिता', इत्युक्तमाह-
गरीयान् इति । 'गरीयान् पूज्यतमः' इति तु भाष्योक्तम् (भ.गी.भा.११-४३)। लोकत्रये -
बद्धमुक्तनित्यरूपचेतनवर्गत्रये । यद्वा, लोकत्रयशब्देन सर्वलोकवर्तिनां लक्षणा । प्रभावतोऽप्रतिमत्वस्य

कण्ठोक्तत्वात् न त्वत्समोऽस्ति इत्यादिकमिह कारुण्यादिषु योजितम् ।