This page has not been fully proofread.

व्याख्याद्वयोपेतम्
 
61
 
सर्वधर्मांश्च सन्त्यज्य सर्वकामांश्च साक्षरान् ।
 
लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो ! ॥ ७ ॥ (विह.सं. - जि.स्तो.)
 
श्रु. भा. - आमुष्मिकं साधनं साध्यञ्चाह सर्व इति । अक्षरशब्देन केवलात्मनि
पर्यवसानम् । लोकविक्रान्तविभुशब्दौ सौलभ्यपरत्वपरौ । शरणशब्दं विवृणोति
त्वमेव इति ।
 
YAUAGAYAGRÜAUSHAURYAÜRÜSÜRÜAUDUTUKUZURÜSÜRÜSURUA
 
र.र. - इति न्यायेन वर्णाश्रमधर्माणामनिवृत्तिः । तदिह त्रैवर्गिकधर्मेषु प्रयोजनान्तरेषु मोक्षोपायान्तरेषु
च साधारणं नैराश्यं त्यागः । तत्र पुरुषार्थान्तरेष्वल्पास्थिरत्वादिदोषदर्शनान्नैराश्यम् । तत
एव तदुपायेष्वपि मुक्तिसाधनेष्वन्येषु स्वावस्थादर्शनेन दुष्करत्वादिना नैराश्यमिति
विशेषः । संत्यज्य सम्यक् त्यक्त्वा, सवासनं परित्यज्य इत्यर्थः । यद्वा पञ्चाङ्गसंयुक्तायाः
प्रपत्तेरङ्गत्वेनाङ्गित्वेन वा अनुपादानमिह धर्माणां त्यागः । सोऽयं प्रपत्त्युपकारकत्वबुद्धिविरहः
संप्रतिपन्नेषु पुरुषार्थान्तरतदुपायेषु मुक्तयुपायान्तरेषु नित्यनैमित्तिकेषु च समान इति
सहोक्तिः ।
 
लोकविक्रान्तचरणौ इति चरणे लोकविक्रान्तत्ववचनम् अनाश्रितानामप्यात्म-
प्रकाशनेन सौलभ्यादिव्यञ्जकम् । लोकविक्रान्त इति व्यस्तं वा; तदा तु लोकेषु विक्रान्तः
अधिष्ठातेत्यर्थः ।
 
ते स्वतन्त्रस्वामिनः । परमप्राप्यस्य च । विभुशब्देन फलप्रदानौपयिकपौष्कल्यं
व्यज्यते । यद्वा विभुशब्देन परत्वम्, ते इत्यनेन सौलभ्यञ्च संगृह्यते । अव्रजं -
व्रजामीत्यर्थः । अनद्यतनत्वम् अत्राविवक्षितम् । भूतत्वेन निर्देशस्तु कर्तव्यशेषनैरपेक्ष्य-
व्यञ्जनपरः । त्याज्यानां त्यागस्य पूर्वमस्पष्टत्वादिह तत्प्रपञ्चने तात्पर्यम् ।
 
उपायत्त्वमुपेयत्वञ्च 'माता पिता भ्राता' (सु.उ.६) इत्यादि श्रुतिसिद्धसर्वविधबान्धवस्य
नारायणस्यैवेत्यभिप्रायेण त्यक्तं सर्वं त्वमेवेत्याह- त्वमेव इति । त्वत्पाद इत्यत्र
त्वच्छब्दाभिप्रेतं च अनेन विशदीकृतम् । सर्वेषां जन्तूनां सर्वेषु जन्मसु सर्वविधोपकारकत्वं
 
1. स्वामिनः आ । 2. गृह्यते - आ ।
 
-