This page has been fully proofread once and needs a second look.

पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् ।

रत्नानि धन-धान्यानि क्षेत्राणि च गृहाणि च ॥
 
-
 
60
 

श्रु. भा. - अथ अनन्यशरण: शरणमहं प्रपद्ये इति शब्दानामर्थं विवृणोति

पौराणिक 'वचनमुखेन'[^1] पितरम् इत्यादिना । गुरुपर्यन्तानां साधनत्व- मुत्कटम् । दाराश्च
दृष्टसाधनम् । रत्नादीनामुपेयत्वमुत्कटम् ।
 
KRÜAKAVAKRÜAURUAUDVAKRUAŰRŰAURYAŬRUAŰRÜAWAYAURUA
 
शरणागतिगद्यम् -
 

र.र. - पितरम् इत्यादिकन्तु स्ववाक्यवन्निबन्धनसंवादमुखेन अनन्यशरण- त्वादिकं
विशदीकृत्य वक्ष्यमाणफलप्रार्थनाप्रस्तावनात्मकमिति द्वयार्थस्य समुदितोक्तिः । तथा ह्यत्र
सोपाधिकभोग्यतदुपायत्यागं निरुपाधिकभोग्य- तदुपायविशेषपरिग्रहं च स्पष्टयित्वा 'प्रसादय'
इत्यादिना 'सोढुम्' इत्यन्तेन 'उत्तरखण्डस्य[^2] दोषनिवृत्तिप्रार्थना संगृह्यते । पित्रादीनां त्यागोक्त्या

भृत्यादिचेतनान्तरत्यागः कैमुत्यसिद्धः । बन्धुशब्दः इह सम्बन्ध्यादिपर: । रत्नानि
इत्यादिकमुत्कटभोग्यत्वभोगसाधनत्वानाम् अचेतनान्तराणामु- पलक्षणम् । चकारेण वा
अनुक्तसमुच्चयः । प्रियेषु हितेषु च मोक्षतदुपाय अनुपयुक्तेषु कुत्रचित् सङ्गोऽपि न
युक्तः इति ज्ञापनाय पितरम् इत्यादि विविधोक्तिः ।
 
1. वचनेन इ ।
 
-
 

एवं लोकसिद्धप्रियहितान्युदाहृत्य सर्वधर्मान् इत्यादिना शास्त्रवेद्यानि साधनानि
साध्यानि च आह । तत्र सर्वधर्मशब्दः सिद्धसाध्यरूपसपरिकर धर्मकार्त्स्न्यपरः । सर्वकामान्
इति हिरण्यगर्भादिपदपर्यन्तकाम्यविषयः । अक्षरशब्द इह आत्ममात्रानुभवगोचरः । धर्माणां
कामानां च उपयोगित्वेन वा पित्राद्युदाहरणम् । तच्च यथासंभवं द्रष्टव्यम् । पित्रादीनां
त्यागश्चात्र काम्यधर्मोपयोगितया अर्थकामोपयोगितया च अनुपादानम् । अत एव 'मातृदेवो
भव, पितृदेवो भव, आचार्यदेवो भव, (तै. उ. शि. ११) 'वृद्धौ च मातापितरौ'
(रा. अयो. ६३-३२) इत्याद्युक्त भगवदाज्ञानुपालनं न विरुध्यते । सर्वधर्मशब्देन
मोक्षसाधनभूतोपासनवर्गसङ्ग्रहेऽपि तन्निवृत्तौ 'विहितत्त्वाञ्चाश्रमकर्मापि' (ब्र.सू.३-४-३२)
 

 
 
 
[^1]. वचनेन - इ ।
[^
2]. खण्डस्थ अ ।
 
- अ ।